________________
संस्कृतनिबन्धशतकम्
आश्रयते । अस्यापि द्वौ भेदौ-संलक्ष्यक्रम-व्यङ्ग्यध्वनिः, असंलक्ष्यक्रम-व्यङ्ग्यध्वनिश्च । संलक्ष्यक्रमे व्यङ्ग्यध्वनौ व्यङ्ग्यार्थ-प्रकाशस्य पौर्वापर्यक्रमो लक्ष्यते । असंलक्ष्यक्रमे व्यङ्ग्यध्वनौ च शतपत्रभेदनन्यायेन पौर्वापर्यं न लक्ष्यते । तत्र सत्यपि पौर्वापर्ये योगपद्यात् न तत्र क्रमज्ञानम् । द्वयोरप्येतयोर्भेदयोरनेके भेदा वर्ण्यन्ते।
गुणीभूतव्यङ्ग्ये वाच्यार्थापेक्षया व्यङ्ग्यार्थस्य नाधिकं महत्त्वम् । जगन्नाथमतेन गुणीभूतव्यङ्ग्यं काव्यमपि उत्तमकाव्यान्तर्गतं स्वीकरणीयम् । अस्य अगूढ-अपराङ्गव्यङ्ग्यादिभेदेन अष्टौ भेदाः ।
काव्यं त्रिविधम्-ध्वनिवादिमतेन काव्यं त्रेधा विभज्यते-उत्तमं मध्यमम् अवरं ( अधमं ) चेति । व्यङ्ग्यार्थस्य प्राधान्ये काव्यमुत्तमम् । 'वाच्यातिशयिनि व्यङ्ग्ये ध्वनिस्तत्काव्यमुत्तमम्' ( सा० द० ४-१ )। उत्तमकाव्यस्यापि भेदत्रयम्-रसध्वनिः, अलंकारध्वनिः, वस्तुध्वनिश्च । तत्र रसध्वनिः सर्वोत्तमः । गुणीभूतव्यङ्ग्यं काव्यं मध्यमम् । 'अतादृशि गुणीभूतव्यङ्ग्यं व्यङ्ग्ये तु मध्यमम्' ( काव्य० १-५ ) । अत्र व्यङ्ग्यार्थस्य सत्त्वेऽपि वाच्यार्थापेक्षया तस्य गौणत्वं भवति । अधमकाव्ये अवरकाव्ये वा शब्दचित्रादिकम् अलंकारप्रदर्शनादिकं च भवति । अत्र रसाभावादस्याधमत्वम् । 'शब्दचित्रं वाच्यचित्रमव्यङ्ग्यं त्ववरं स्मृतम्', काव्य० १-५ )।
ध्वनिवादस्य महत्त्वस्य कारणं यदत्र सर्वेषामपि काव्यमूलतत्त्वानां रसालंकार-वक्रोक्त्यादीनां समावेशो भवति । अत्र रीतिवादवद् न केवलं पाण्डित्यप्रदर्शनम्, अपि तु चित्ताह्लादकत्वं चेतोविकासकत्वं च भवति । ध्वनिवादस्य रमणीयत्वं शब्दमूलकम् अर्थमूलकं शब्दार्थोभयमूलकं च । ध्वनिः काव्ये ललनालावण्यवद् अपूर्वं रम्यत्वं प्रतीयमानमर्थं च द्योतयति ।
खण्डन-मण्डनादिभिः पुष्टः सर्वमान्योऽयं काव्यसिद्धान्तः । नैतादृशः काव्यसिद्धान्तो भुवनेऽन्यत्रावलोक्यते । अतएवैतस्येयत् महत्त्वम् । ध्वनेरेतस्य असंख्यभेद-प्रभेदत्वात् काव्यस्य सूक्ष्मातिसूक्ष्माः सर्वा अपि विशेषता आत्मसात् करोति । एवं सिध्यति यद्
काव्यस्य।