SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ २१. विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः ( रससिद्धान्तः। रसो वै सः) रसस्य स्वरूपम्-काव्यं हि आनन्दानुभूतिसाधनम् । आनन्दानुभतिश्च रसास्वादमूला । रसास्वादनादेव आनन्दावाप्तिः । अतएव काव्यप्रयोजने मम्मटो 'सद्यः परनिर्वतये' इति व्याचष्टे सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वादसमुद्गतं विगलितवेद्यान्तरम् आनन्दम् । काव्य० १-२ विश्वनाथः साहित्यदर्पणे रसस्वरूपं प्रतिपादयति यद् रसो ब्रह्मास्वादसहोदर: वेद्यान्तरस्पर्शशून्यो ब्रह्मास्वादसहोदरः। स्वाकारवदभिन्नत्वेनायमास्वाद्यते रसः॥ सा० द० ३-२,३॥ रसस्य आस्वाद्यत्वम् अनुभूतिविषयत्वं च मम्मटेन वर्ण्यते : 'पानकरसन्यायेन चळमाणः, हृदयमिव प्रविशन्, अन्यत्सर्वमिव तिरोदधत्, ब्रह्मास्वादमिवानुभावयन्, अलौकिकचमत्कारकारी शृङ्गारादिको रसः' काव्यप्रकाश उल्लास ४। तैत्तिरीयोपनिषदि 'रसो वै सः । रसं ह्येवायं लब्ध्वानन्दी भवति' ( तै० २-७ ) इत्यत्र ब्रह्मणो रसरूपत्वं तदवाप्तौ च आनन्दोपलब्धिर्वर्ण्यते । नाट्यशास्त्रे भरतेन निर्दिश्यते:___ 'रस इति कः पदार्थः ? उच्यते-आस्वाद्यमानत्वात् । कथमास्वाद्यते रसः ? यथा हि नानाव्यञ्जन-संस्कृतमन्नं भुञ्जाना रसानास्वादयन्ति सुमनसः पुरुषा हर्षादींश्चाधिगच्छन्ति, तथा नानाभावाभिनयव्यञ्जितान् वागङ्गसत्त्वोपेतान् स्थायिभावान् आस्वादयन्ति सुमनसः प्रेक्षका हर्षादींश्चाधिगच्छन्ति ।' -नाट्य० अ०६ यथा नानाव्यञ्जनमिश्रम् अन्नं भुञ्जाना रसान् आस्वादयन्ति, तथैव नानाभावाभिव्यञ्जितान् स्थायिभावान् सहृदया आस्वादयन्ति, हर्ष चानुभवन्ति । रसभावयोश्च परस्परं पोषकत्वम् । न भावहीनो रसः, न च रसहीनो भावः । एवं द्वावपि परस्परं भावयतः। ( नाट्यशास्त्र ६-३७ ) । रसः सर्वेषां भावानां मूलम्, यथा बीजं वृक्षपुष्पादेः । ( नाट्य० ६-३९) भरतेन नाट्यशास्त्रे उच्यते-'नहि रसाद् ऋते कश्चिदर्थः प्रवर्तते' ( नाट्य० ६-३२ ) । कथं रसनिष्पत्तिरिति जिज्ञासायां तेनोच्यते
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy