SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ ७२ संस्कृतनिबन्धशतकम् विभावानुभावव्यभिचारिसंयोगाद रसनिष्पत्तिः। अत्र विभावाः कारणानि, अनुभावाः कार्याणि, व्यभिचारिणश्च सहकारिणः, एषां संयोगाद् रसस्य निष्पत्तिः । उक्तं च मम्मटेन कारणान्यथ कार्याणि सहकारीणि यानि च। रत्यादेः स्थायिनो लोके तानि चेन्नाटयकाव्ययोः॥ विभावा अनुभावास्तत कथ्यन्ते व्यभिचारिणः। व्यक्तः स तैविभावाद्यैः स्थायी भावो रसः स्मृतः॥ काव्य० ४-२७-२८ अत्र संयोगशब्दं निष्पत्तिशब्दं चाश्रित्य विविधा वादाः प्रादुरभवन् । प्राधान्येन चत्वारो वादा विविधदर्शनविद्भिः प्रतिपादिताः। तत्र ( १ ) भट्टलोल्लटेन मीमांसादर्शनम् आश्रित्य 'उत्पत्तिवादः', (२) शकेन न्यायदर्शनमाश्रित्य 'अनुमितिवादः', (३) भट्टनायकेन सांख्यदर्शनमाश्रित्य 'भुक्तिवादः', (४) अभिनवगुप्तेन च वेदान्तदर्शनमाश्रित्य 'अभिव्यक्तिवादः' प्रस्ताविताः । (१) भट्टलोल्लटस्य रसोत्पत्तिवादः-भट्टलोल्लटो वादस्यास्य प्रवर्तकः । तन्मतानुसारं विभावानाम् अनुभावानां व्यभिचारिभावानां च संयोगेन रसस्य उत्पत्तिर्भवति । तत्र विभावैर्ललनादिभिः आलम्बनोद्दीपनकारणः रत्यादिरूपः स्थायिभावो जायते । अनुभावैः कटाक्षादिभिः कार्यैः प्रतीतियोग्यः क्रियते । व्यभिचारिभिनिर्वेदादिभिः पोष्यते । स च रसो मुख्यतया अनुकार्ये रामादौ वर्तते । तद्रूपानुकरणात् नटेऽपि स रसः प्रतीयते । अत्र संयोगशब्दस्य निष्पत्तिशब्दस्य च अर्थत्रयं गृह्यते । (१) विभावैः सह स्थायिभावानाम् उत्पाद्य-उत्पादकभावः संबन्धः, तेन रसस्य निष्पत्तिः उत्पत्तिरित्यर्थः । (२) अनुभावैः सह स्थायिभावानां गम्य-गमक-संबन्धः, तेन रसस्य निष्पत्तिः प्रतीतिरित्यर्थः। ( ३ ) व्यभिचारिभावैः सह स्थायिभावानां प्रोष्य-पोषकभावः संबन्धः, तेन रसस्य निष्पत्तिः पृष्टिरित्यर्थः । रसो मुख्यतया अनुकार्ये रामादावेव भवति । नटे तु केवलं तद्रूपानुसंधानाद् रसप्रतीतिः । नटादीनां वेशभूषादिभिः दर्शकानां तथाविधं रसाप्लुतत्वं यवा नटेऽपि तेषां रामादिबुद्धिः । एतादृशो भ्रम एवानन्दानुभूतेः कारणम् । एतन्मतानुसारं रसास्वादः अनुकार्याणां रामादीनामेव, दर्शकानां रसानुभूतिः नटादीनां माध्यमेन संजायते । तेषां रसानुभूतिः गौणी परानुभूतिमूला च । भट्टलोल्लटो मीमांसादर्शनमाश्रयते। तन्मतानुसारं विषये एव रसोत्पादनस्य क्षमता। अत्र रसो वाच्यः, न तु व्यङ्ग्यः, अतो मतमिदम् उत्पत्तिवादः तात्पर्यवादः, आरोपवादो वा कथ्यते । यथा मीमांसामते यजमानः पुरोहितादि-माध्यमेन यज्ञस्य फलम् अवाप्नोति, तथैव दर्शकानां रसप्रतीतिः अभिनेतृणां माध्यमेन संजायते ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy