SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ७३ विभावानुभावव्यभिचारिसंयोगाद् रसनिष्पत्तिः अस्मिन् मते केचन दोषाः समापतन्ति-(१) रसानुभूतिर्मुख्यतया अनुकार्ये, गौणरूपेण च नटे वर्तते। सामाजिकानां दर्शकानां वा कथं रसानुभूतिरिति न स्फुटीक्रियते । (२) अनुकार्ये रामादौ रसः, तेषां जगत्यभावेन तन्निमित्तकेनाभिनयेन अभिनेतृषु अपि कथं रसोत्पत्तिः ? ( ३ ) प्रेक्षकेषु रसप्रतीतिरेव रसानुभूतिः, अथवा तेषु स्वाभाविको हार्दिकी चानुभूतिः ? एतेषां दोषाणां निराकरणं नात्र क्रियते। (२) शकुकस्य अनुमितिवाद :-शङकुको न्यायसंमतम् अनुमितिवादं प्रस्तौति । तत्र 'चित्रतुरगन्यायेन' यथा अवास्तविकेऽश्वे वास्तविकाश्वबुद्धिः, तथैव सामाजिकैः अभिनेतृषु रामादिबुद्धिम् आरोप्य अभिनयादिकौशलहेतुत्वाद् रसानुभूतिः क्रियते । अत्र सामाजिकेषु विद्यमानया वासनया अनुमितिसाहाय्येन रसानुभूतिः । सामाजिकाः चित्रतुरगन्यायेन अभिनेतृषु अनुकार्यरामादिरूपताग्रहणाद् रसानुभूतिम् अनुमाय स्ववासनया तत्र रसानुभूति कुर्वन्ति । अत्र सम्यग-मिथ्या-संशय-सादृश्य-प्रतीतिभ्यो विलक्षणया 'चित्रतुरगन्यायेन' रामोऽयमिति प्रतिपत्त्या सामाजिकानां वासनया रसानुभूतिः । अत्र अनुमानेन रसानुभूतिर्जायते । __अत्र संयोगाद् इत्यस्य गम्य-गमकभावसंबन्धाद् इत्यर्थः । रसनिष्पत्तिरित्यस्य च रसानुमितिरित्यर्थः । तन्मूला च रसानुभूतिः।। अस्मिन् वादेऽपि केचन दोषा आपतन्ति । (१) अस्मिन् मतेऽनुमानेन रसानुभूतिः । किं पर्वते धूमदर्शनेन अग्ने: अनुमाने कृतेऽपि अग्नेः उष्णताsनुमानेन प्राप्तुं शक्यते ? एवम् अनुकर्तृषु नटादिषु रसानुभूतेरनुमानेऽपि कथं तन्निमित्ता प्रेक्षकाणां रसानुभूतिः ? एषा रसानुभूतिः नानुमितिमूला, अपि तु स्वानुभूतिमूला । (२) अनुमानं बुद्धेविषयः, न त्वनुभूतेः । ( ३ ) रसानुभूतिः प्रत्यक्षा स्वानुभूतिमूला च । न साऽनुमानेन साध्या। ___(३) भट्टनायकस्य भुक्तिवादः--भट्टनायको रसं नानुमेयं मन्यते, अपि तु भोज्यं मन्यते । तन्मते संयोगस्याभिप्रायो भोज्यभोजकभावोऽस्ति, निष्पत्तेः तात्पर्य च 'भुक्ति:' वर्तते । रसानुभूतिप्रक्रियाया अवस्थात्रयम्-अभिधा, भावकत्वं भोजकत्वं च । तत्र अभिधया शब्दार्थेऽवगते भावकत्वव्यापारेण विभावादीनां साधारणीकरणं भवति । साधारणीकरणेन व्यक्तिवैशिष्टयादेः अभावो भवति, अतो विभावादेः निर्वैयक्तिकत्वं भवति । ततश्च भोजकत्वव्यापारेण रजस्तमसोः क्षये सत्त्वोद्रेकाद् रसो भुज्यते आस्वाद्यते इत्यर्थः । स च रसो ब्रह्मास्वादसहोदरः । ___भट्टनायकस्य मतेऽपि केचन दोषा उपस्थाप्यन्ते-(१) भट्टनायको ध्वनिवादविरोधी आचार्यः। सभावकत्व-भोजकत्व-व्यापारयोः कल्पनां प्रस्तौति । द्वावेतो व्यापारी नानुभवसिद्धौ। (२) अत्र स्थायिभावस्य भोगः स्वोक्रियते ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy