________________
७४
संस्कृतनिबन्धशतकम् स स्थायिभावः किं रामादिगतः, नटादिगतः, आहोस्वित् सामाजिकगतः । एतत् नावविशदीक्रियते।
भोजकत्व-व्यापाराश्रयेण तस्य मतं 'भक्तिवादः' इत्येवं गह्यते । भट्टनायकेन या साधारणीकरण-प्रक्रिया प्रस्तुता, सा सर्वमान्या, सर्वाभिनन्दिता च । भट्टनायकस्य काव्यशास्त्रे एतदपूर्वं योगदानं वर्तते । एतन्मतं सांख्यसिद्धान्तानुयायि । यथा सांख्ये सुखदुःखादयोऽन्तःकरणधर्माः, न त्वात्मनः । परन्तु अन्तःकरणसंबद्धत्वाद् पुरुषेऽपि सुखदुःखादीनाम् औपाधिकी प्रतीतिः । तथैव प्रेक्षकेषु अविद्यमानोऽपि रसः औपाधिकरूपेण भुज्यते ।
(४) अभिनवगुप्तस्य अभिव्यक्तिवादः-अभिनवगुप्तो भट्टनायकाभिमतं भावकत्व-भोजकत्व-व्यापारद्वयं निषिध्य अभिव्यञ्जनावादं प्रतिष्ठापयति । स च 'रसनिष्पत्तिः' इत्यस्य रसाभिव्यक्तिः इत्यर्थं स्वीकुरुते । एतन्मतं च आचार्यभरतस्य मतेनापि संगच्छते ।
अभिनवगुप्तो भावकत्व-भोजकत्व-व्यापारद्वयम् अशास्त्रीयं मनुते । 'आस्वाद्यत्वाद रसः' इति भोजकत्वं रसस्वभाव एव । 'काव्यार्थान् भावयन्ति इति भावाः', एवं भावकत्वमपि भावानां वैशिष्टयमेव । अतो भावकत्व-भोजकत्व द्वयम् अग्राह्यम् ।
स रसं व्यङ्ग्यं मनुते। रसो व्यञ्जनया सहृदयं प्रभावयति । रसास्वादश्च सहृदयानामेव । अत्र संयोगशब्देन व्यङ्ग्य-व्यञ्जकसंबन्धो गृह्यते । स्थायिभावो व्यङ्ग्यः, विभावादयश्च व्यञ्जकाः। व्यञ्जनाया विभावनव्यापारेण विभावानां स्थायिभावानां च साधारणीकरणं भवति । एवं रामाद्यनुकार्याणां भावा वैशिष्ट्यविरहिता: सन्तः सहृदयानां हृत्स्थ-वासनारूपभावान् उद्बोधयन्ति । तन्मतानुसारम् 'न ह्येतत् चित्तवृत्तिवासनाशून्यः कश्चित् प्राणी भवति' । वासनैषा सुप्तावस्थायां विद्यमाना अभिनयादिभिः काव्यार्थे प्रकाशिते जागति । यथा मृद्गन्धो जलसेचनेन प्रादुर्भवति, तथैव वासनाया अपि उदयः ।
साधारणोकरणेन सहृदयस्य वासना-संवादो भवति, सुषुप्तश्च स्थायिभावो निर्वैयक्तिकरूपेणाभिव्यक्तः सन् आनन्दास्वादं कारयति, एष एव रसास्वादः । अस्मिन् आस्वादे एव रसस्य स्थितिः । संविविश्रान्तिजन्य एष आनन्दः । अत्र चैतन्यं विश्रान्ति-स्थितौ संतिष्ठते। रसानुभूतिरियं सामान्यानुभूतिभिन्नत्वाद् उदात्तत्वात् सर्वजनवेद्यत्वाच्च अलौकिकी कथ्यते । अत्र संबन्धविशेषस्य परिहारः । रसोऽयं सहृदयसंवेद्यः । मतमिदं शैवाद्वैतवादम् आनन्दवादं वा आश्रित्य प्रवर्तते । तत्र चेतनायाः पूर्ण विश्रान्तेः स्थितिः स्वीक्रियते ।
____ अभिनवगुप्तस्य मतमिदं दर्शनमूलत्वात् मनोवैज्ञानिकचिन्तनपरत्वाद् यथार्थभावेन रसविश्लेषणाच्च अद्यत्वेऽपि सर्वेरेव काव्यतत्त्वज्ञैः गृह्यते स्वीक्रियते प्रशस्यते च ।