________________
२२. वैदर्भो ललितकमा |
( समग्रगुणा वैदर्भो ) नाम का रीतिः ?-रीतिर्नाम काव्ये सौन्दर्याधायिनी, विशिष्टगुणसमवेता, शब्दार्थोभय-रम्यत्वाधायिका, चमत्कृतिप्राणा, गुणाश्रया, विदग्धभणितिभङ्गीरूपा, रसादीनाम् उपकी, विशिष्टा पदसंघटना। रीतिर्नाम मार्गपर्यायः । पद्धतिः शैली इत्यादयस्तदर्थबोधकाः पर्यायशब्दाः । काव्ये प्राधान्येन रमणीयत्वम् आकाक्ष्यते । रमणीयत्व च कलात्मिक्या वचोभङ्ग्यैव संभवति । प्रत्येकस्य कवेविशिष्टा भावाभिव्यञ्जनप्रणाली। सैषा विशेषता तस्य समग्रकाव्यावगाहिनी । तयैव विशेषतया कवेरात्मा स्वरूपं च निर्धार्यते । रमणीयाभिव्यक्तिः काव्यम् । रमणीयत्वं काव्ये चमत्कृतिकारि । रमणीयत्वस्य मूलं रीतिः । रीते-. लक्ष्यमस्ति-सौन्दर्यस्य सृष्टि:, रसानुगुणं पदसंयोजनं च ।
. वैदर्भी रीतिः-सर्वप्रथमं बाणस्योक्तौ 'उत्प्रेक्षा दाक्षिणात्येषु' (हर्षचरित १-७) दाक्षिणात्यशैलीनाम्ना वैदाः संकेतो लक्ष्यते । भामहानुसारं रीतिद्वयम्-वैदर्भी गौडी चेति । तदनन्तरं दण्डी प्रादेशिकं वैशिष्ट्यम् अनादृत्य गुणमूलकं रीतिविभाजनं विधत्ते । श्लेषादिदशगुणविशिष्टा वैदर्भी ।
श्लेषः प्रसादः समता माधुर्य सुकुमारता। अर्थव्यक्तिरुदारत्वमोजः-कान्तिसमाधयः॥ इति वैदर्भमार्गस्य प्राणा दशगुणाः स्मृताः । काव्यादर्श वामनो रीतिं त्रेधा विभजति
सा त्रेधा वैदर्भी गौडीया पाञ्चाली चेति । काव्या० २-९
विशिष्टप्रदेशीयकविभिस्तथाविधशैल्याः समाश्रयेण वैदर्भादिकं नामाश्रीयते । उक्तं च-विदर्भादिषु दृष्टत्वात् तत्समाख्या। काव्या० २-१० ।
स्फुटमुच्यते वामनेन यद्-'विदर्भ-गौड-पाञ्चालेषु तत्रत्यैः कविभिर्यथास्वरूपम् उपलब्धत्वात् तत्समाख्या। न पुनर्देशैः किञ्चिद् उपक्रियते काव्या-- नाम्' । ( काव्या० २-१०)
वैदर्भी-रीतेर्लक्षणम्-वामनः वैदर्भी लक्षयति___ समग्रगुणा वैदर्भो । काव्या० २-११
ओजःप्रसादादि-पूर्वोक्तदशगुणैरुपेता वैदर्भी नाम रीतिः । वैदर्भीरीतिविषयकं श्लोकद्वयं तेनोल्लिख्यते
अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता। विपञ्चीस्वरसौभाग्या वैदर्भो रीतिरिष्यते ॥
या दोषादिभिरस्पृष्टा, समग्रगुणसंपन्ना, वीणास्वरमनोहारिणी च सा वैदर्भी रीतिः । अन्ये च कवयो वैदर्भीमेवं स्तुवन्ति ।