________________
७६
संस्कृतनिबन्धशतकम् सति वक्तरि सत्यर्थे सति शब्दानुशासने । __ अस्ति तन्न विना येन परिस्रवति वाङ्मधु ॥
वैदर्भीरीत्यास्तथा महत्त्वं यथा शब्दार्थादिवैशिष्ट्ये सत्यपि वैदर्भी-रीति विना न वाङ्मध स्रवति, न च रम्यत्वं जायते । वामनेन वैदर्भीरीत्या उदाहरणं शाकुन्तलात् प्रस्तूयते
गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु । विश्रब्धं कुरुतां वराहततिभिर्मुस्ताक्षतिः पल्वले विश्रान्ति लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥ शाकु० २-६
वामनानुसारं तिसृणां रीतीनां वैदर्येव ग्राह्या गुणसाकल्यात् । उक्तं च–'तासां पूर्वा ( वैदर्भी ) ग्राह्या गुणसाकल्यात् । न पुनरितरे स्तोकगुणत्वात् ।' ( काव्या० २-१४, १५)।
रुद्रटो वैदर्भीमेवं प्रस्तौति
असमस्तैकसमस्ता दशभिर्गुणैश्च वेदर्भो ।
वर्गद्वितीयबहला स्वल्पप्राणाक्षरा च सुविधेया। काव्या०
रुद्रटः शृङ्गार-करुणरसयोर्वेदाः प्रयोगं शंसति । राजशेखरो विदर्भप्रान्ते काव्यपुरुषस्य साहित्यवध्वाश्च गान्धर्व विवाहमुल्लिख्य वैदर्भीरीत्याः सर्वोत्कृष्टत्वं साधयति । भोजराजः षट्सु रीतिषु वैदर्भीमपि उल्लिखति । तेन वैदर्भीरीत्या गुणा उच्यन्ते-असमासा, श्लेषादिनवगुणगुम्फिता, सानुप्रासा, श्रुतिमधुरा, अतिसुकुमारबन्धा च । विश्वनाथस्तल्लक्षणं निर्दिशति
माधुर्यव्यञ्जकैर्वर्णं रचना ललितात्मिका। अवृत्तिरल्पवृत्तिर्वा वैदर्भी रीतिरिष्यते ॥ सा० दर्पण ९-२ अनङ्गमङ्गलभुवस्तदपाङ्गस्य भङ्गयः। जनयन्ति मुहुर्यनामन्तःसन्तापसंततिम् ॥ तदुदाहरणं च तेन प्रस्तूयते
कालिदासो वैदर्भीरीत्याः सर्वमान्यः सर्वश्रेष्ठश्च कविः । तस्य काव्ये वाङ्मधु क्षरति । तथा तस्य काव्ये माधुयं सहृदयाह्लादकत्वं च यथा सर्वैरपि “कविः कालिदासः' इति स स्तूयते । तस्य वचोमाधुर्यं दिङमात्रम् उदाह्रियते
सरसिजमनुविद्धं शैवलेनापि रम्यं ___ मलिनमपि हिमांशोलक्ष्म लक्ष्मी तनोति । इयमधिकमनोज्ञा वल्केनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ शाकु० १-२० एवं समग्रगुणत्वात् ललितक्रमत्वाच्च वैदर्भी प्रेष्ठा ।