________________
२३. शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरिष्यते
रोतेर्लक्षणम्-'रीङ्गताविति धातोः सा व्युत्पत्त्या रीतिरुच्यते' एवं सरस्वतीकण्ठाभरणे श्रीभोजराजो रीतेयुत्पत्तिमूलकम् अर्थ बोधयन् मार्गः पन्था वा इत्यर्थ बोधयति । तस्य टीकाकृद् रामसिंहोऽपि 'रीतिशब्दो मार्ग-- पर्यायः' इति रीतिं परिभाषते । आचार्यविद्याधरो 'रसोचितशब्दार्थनिबन्धनं रीतिः' इति रीति परिभाषते । आचार्यविश्वनाथो रीति लक्षयति
पदसंघटना रीतिरङ्गसंस्थाविशेषवत् । उपको रसादीनाम् । सा० दर्पण ९-१
रीतिशब्दः शैलीपर्यायः । रीतिविशिष्टा भणितिभङ्गी पदसंघटना वा। सा रसं भावं वाऽभिव्यनक्ति । रीत्यैव काव्ये चमत्कृतिर्वैशिष्टयं रम्यत्वं वा संलक्ष्यते । रीतिरेव कवेः कलात्मिकी प्रवृत्ति द्योतयति । रीतिर्वचोभङ्गोरूपेण कवेः-वचः, पद्धतिम्, भावाभिव्यञ्जनसरणिम्, लोकाराधनक्षमतां च द्योत-- यति । रीतिर्बाह्यस्वरूप-प्रकाशनेन समं कवेरन्तश्चिन्तनमपि प्रकटयति ।
पाञ्चालीरीतेर्लक्षणम्--बाणेन सर्वप्रथमम्-'प्रतीच्येष्वर्थमात्रकम्' ( हर्षचरित १-७) इति व्याहरता पाञ्चालीरीत्याः संकेतः क्रियते । वामनो रोति त्रेधा विभजति
सा त्रेधा वैदर्भी गौडीया पाञ्चाली चेति । काव्यालंकार २-९ तत्तत्प्रदेशदृष्टत्वात् पाञ्चाल्यादिनामोत्पत्तिः । उक्तं च
विदर्भादिष दुष्टत्वात ततसमाख्या। काव्या० २-१० वामनः पाञ्चालीं लक्षयति
माधुर्यसौकुमार्योपपन्ना पाञ्चाली। काव्या० २-१३
यत्र माधुर्यं सौकुमार्य च गुणौ भवतस्तत्र पाञ्चाली रीतिरिष्यते । लक्षणान्तरम् उद्धरता तेनोच्यते
अश्लिष्टश्लथभावां तां पूरणच्छायया श्रिताम् । मधुरां सुकुमारां च पाञ्चालीं कवयो विदुः॥
यत्र गाढत्वाभावः, समासबाहुल्याभावः, मधुरत्वं सुकुमारता च, तत्र पञ्चााली रीतिः । वामनेन तदुदाहरणं प्रस्तूयते
ग्रामेऽस्मिन् पथिकाय नैव वसतिः पान्थाऽधुना दीयते रात्रावत्र विहारमण्डपतले पान्थः प्रसुप्तो युवा। तेनोत्थाय खलेन गर्जति घने स्मृत्वा प्रियां तत् कृतं येनाद्यापि करङ्कदण्डपतनाशडी जनस्तिष्ठति ॥