________________
७८
संस्कृतनिबन्धशतकम्
रुद्रटः समासमूलकं रीतेविभाजनं कुरुते । तन्मतानुसारं 'द्वित्रिपदा 'पाञ्चाली' ( काव्यालंकार ) । शृङ्गार-करुण-रसयोवर्णने सा प्रशस्यते
वैदर्भीपाञ्चाल्यौ प्रेयसि करुणे । ( काव्यालंकार )
कर्पूरमञ्जर्या मङ्गलाचरणे राजशेखरः पाञ्चालीमपि स्तौति । स रीतित्रयमेव स्वीकरोति । तत्र सरस्वत्या निवासं मनुते
वैदर्भी गौडीया पाञ्चाली चेति रीतयस्तिस्रः।।
आसु च साक्षानिवसति सरस्वती तेन लक्ष्यन्ते । काव्यमीमांसा
भोजराजोऽपि षड्विधरोतिवर्णने पाञ्चालीमपि उल्लिखति । तन्मतानुसारं पाञ्चाली-लक्षणं वर्तते
समस्तपञ्चषपदामोजःकान्ति-समन्विताम् ।
मधुरां सुकुमारां च पाञ्चाली कवयो विदुः॥
तन्मतानुसारम् अनतिदीर्घसमासयुक्ता, ओजःकान्तिगुणयुक्ता, मधुरा, सुकुमारा च रीतिः पाञ्चाली इति ।
विश्वनाथः साहित्यदर्पणे रीतिचतुष्टयस्य वर्णने पाञ्चाली लक्षयति
वर्णैः शेषः पुनर्द्वयोः।
समस्तपञ्चषपदो बन्धः पाञ्चालिका मता ॥ सा९ द० ९-४
तन्मतानुसारं प्रसादगुणव्यञ्जकैवर्णैर्युक्ताः पञ्चषपदसमासयुक्ता पाञ्चाली। तदुदाहरणं तेन माघस्य माधुर्यसौकुमार्यगुणसंपृक्त: श्लोकः प्रस्तूयते
मधुरया मधुबोधितमाधवीमधुसमृद्धिसमेधितमेधया।
मधुकराङ्गनया मुहुरुन्मदध्वनिभृता निभृताक्षरमुज्जगे।
पाञ्चालीरीत्याः प्रथिततमः कविणिः । तेन कादम्बर्यां वैदर्भीगौडीरीत्योः समन्वयेन या ललितपदक्रमा शैली आश्रीयते, सा सर्वजनहृद्या मनोरमा च । तत्र क्वचित् प्रसादगुणच्छटा, क्वचिद् माधुर्यम्, क्वचिद् ओजोगुणस्यापि संमिश्रणम् । एवं बाणस्य शैली सर्वजनाह्लादकारिणी सर्वकविग्राह्या च संवृत्ता। यथा
( क ) न परिचयं रक्षति । नाधिजनमीक्षते । न रूपमालोकयते । न कुलक्रममनुवर्तते । न शोलं पश्यति । न वैदग्ध्यं गणयति ॥ ( कादम्बरी)।
( ख ) क्रमेण च कृतं मे वपुषि वसन्त इव मधुमासेन, मधुमास इव नवपल्लवेन, नवपल्लव इव कुसुमेन, कुसुम इव मधुकरेण, मधुकर इव मदेन, नवयौवनेन पदम् । ( कादम्बरी) ।
एवं शब्दार्थयोः समभावेन गुम्फनेन पाञ्चालीरीतेर्वैशिष्टयं सिध्यति । .