________________
२४. काव्यशोभाकरान् धर्मान् अलंकारान् प्रचक्षते ।
(अलंकार-संप्रदायः) अलंकारस्य महत्त्वम्-अलंकरोतीति अलंकारः, अलंक्रियतेऽनेनेति वा अलंकारः । उभयथापि अलंकरणसाधनम् अलंकार इति अभीष्यते । अलंकाराणामपि काव्ये महन्महत्त्वम् । 'न कान्तमपि निभूषं विभाति वनिताननम् । गणगौरवसम्पन्नाऽपि वनिता यथा सालङ्कारैव शोभते, न तथाऽलंकारविहीना। एवमेव शब्दार्थयोः सौन्दर्याधायकं तत्त्वम् अलंकारः। अलकारः शब्दार्थयोन केवलं सौन्दर्यमेव समेधयति, अपि तु तत्र चमत्कृतिमपि आदधाति । सैव चमत्कृतिः क्वचिद् उपमादिरूपेण, क्वचिद् अतिशयोक्त्या, क्वचिद् वक्रोक्त्या, क्वचिच्च केवलं शब्दसाम्यमूलकेन अनुप्रासेन द्योत्यते ।
यद्यपि काव्यात्मरूपेण नास्य महत्त्वम्, तथापि शब्दार्थशरीरस्य बाह्यसौन्दर्यवर्धनेन समं रसादीनपि पोषयति । अलंकारस्य तादृशं महत्त्वं यथा शरीरेऽलंकाराणां वस्त्रादीनां वा । यथा सकलगुणसमन्वितोऽपि मानवो निर्वसनो न शोभते, अलंकाररहिता नारी यथा न शोभते, तथैवालंकारहीनं काव्यम् । उद्घोष्यते चैतत्
अलंकाररहिता विधवैव सरस्वती । अग्निपुराण यदपि सुजाति सुलच्छना सुबरन सरस सुवृत्त । भूषन बिन न बिराजई कबिता बनिता मित्त ॥
अलंकार-लक्षणम्-अलंकारतत्त्वज्ञ आचार्यो दण्डी काव्यादर्श अलंकारं लक्षयति
__ काव्यशोभाकरान् धर्मान् अलंकारान् प्रचक्षते ॥ काव्यादर्श २-१
वामनः-'सौन्दर्यमलंकारः' ( काव्यालंकारसूत्र १-२) इति अभिदधत् काव्यशास्त्रगतं सर्वमपि सौन्दर्यम् अलंकारशब्देन परिगृह्णाति । ‘स दोषगुणालंकार-हानादानाभ्याम्' ( काव्या० १-३) दोषाणां परित्यागात् गुणानाम् अलंकाराणां चोपादानेन काव्ये सौन्दर्यरूपोऽलंकारो जायते ।
मम्मटोऽलंकारं लक्षयतिउपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलंकारास्तेऽनुप्रासोपमादयः ॥काव्य० ८-६७ । विश्वनाथश्चालंकारं लक्षयति
शब्दार्थयोरस्थिरा ये धर्माः शोभातिशायिनः।। रसादीनुपकुर्वन्तोऽलंकारास्तेऽङ्गदादिवत् ॥ सा० द० १०-१
अलंकारा अङ्गदादिवत् शब्दार्थयोः शोभावर्धकाः, रसादीनां चोपकर्तारः । प्रसादादिगुणवत् अलंकारा न अपरिहार्याः, अतएवैते अस्थिरा धर्मा उच्यन्ते ।