SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ८८. धर्मार्थकाममोक्षाणाम् आरोग्यं मूलमुत्तमम् ( १. शरीरमाद्यं खलु धर्मसाधनम्, २. आरोग्यम् ) आरोग्यस्य पुरुषार्थसाधनत्वम्-धर्मार्थकाममोक्षाः पुरुषार्थचतुष्टयं मन्यते । एतत् पुरुषार्थचतुष्टयमेव जीवनस्य लक्ष्यत्वेन निर्धार्यते । एकेनाप्यङ्गेन हीनं पुरुषार्थचतुष्टयं न जीवनोद्देश्यपूर्तये प्रभवति । कथमिव साध्यं पुरुषार्थचतुष्टयमिति जिज्ञासायाम् आरोग्यमेव तन्मूलत्वेन गृह्यते । सति जीवने नीरोगे, सति शरीरे स्वस्थे हृष्ट पुष्टे, सति च मानसिकविकासे मानवस्य सर्वोऽप्यभिलाषः, सर्वाऽपि महत्त्वाकाङ्क्षा, सर्वमप्यभीष्टं सुकरेणैवोपायेन सिध्यति । दीने, हीने, रुग्णे, आधिव्याधिसन्तप्ते, चिन्तासहस्रनिचिते, विक्षिप्तत्वादिदोषयुक्ते च न संभवति पुरुषार्थचतुष्टयावाप्तिः । अतएव महाभारते जीवलोकस्य षट्सुखवर्णने व्यासेन आरोग्यं प्राधान्येन निर्दिश्यते अर्थागमो नित्यमरोगिता च, प्रिया च भार्या प्रियवादिनी च। वश्यश्च पुत्रोऽर्थकरी च विद्या, षड् जीवलोकस्य सुखानि राजन् ॥ महाभारत शरीरमाद्यं खलु धर्मसाधनम्-सर्वस्य लोकस्य सुखमभीप्सितम्, शान्तिरिष्टा, समृद्धिश्च मनस्तोषप्रदा। परं सुख-शान्तेरवाप्तिः नैरोग्यमन्तरेण, शारीरिकस्वास्थ्यम् अपहाय च कथमपि न संभवति । स्वस्थे चित्ते एव नैरोग्यं स्वास्थ्यं च । पुरुषार्थचतुष्टयावाप्तिः अध्यवसायजन्या, अध्यवसाय: श्रमम् अपेक्षते, श्रमः स्वास्थ्यम्, स्वास्थ्यं नीरोगत्वम्, नीरोगत्वं चित्तप्रसादम्, चित्तप्रसादश्च सद्वत्तम् अपेक्षते । एवं वृत्तं शीलं वा स्वास्थ्यस्य परमं मूलम् । अतएव व्यासेन मनुना चोच्यते वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च । अक्षीणो वित्ततःक्षीणो वृत्ततस्तु हतो हतः॥ महा० आचाराल्लभते ह्यायुराचारादीप्सिताः प्रजाः। आचाराद् धनमक्षय्यम् आचारो हन्त्यलक्षणम् ॥ मनु० ४-१५६ आरोग्यस्य धर्ममूलत्वम्-धर्मकृत्येषु सत्याहिंसा-ब्रह्मचर्यपालनम्, लोकसेवा, परोपकरणम्, यज्ञ-दान-तपःपूजोपासनादिकम्, सर्वमप्येतद् धर्मकृत्यम् आरोग्यायत्तम् । स्वस्थेनैव मानसेन, नीरोगेणैव मानवेन च यज्ञादिविधिः, पूजाकर्म, प्राणायामादिकम्, सन्ध्योपासनम्, विविधव्रतपालनम्, संयमः, शरणागतरक्षणम्, स्वाध्याय-प्रवचनम्, अध्यापनम् , अध्ययनम्, सदाचार-नियमपालनं च कर्तु पार्यते । न च निर्बलेन, रोगग्रस्तेन, शारीरिकबलहीनेन, खिन्नेन, निराशेन, विषण्णेन, चिन्ताततिग्रस्तेन च धर्मकार्य संपादयितुं शक्यम् । अतो धर्माचरणसिद्धयै आरोग्यम् अनिवार्यम् ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy