________________
धर्मार्थकाममोक्षाणाम् आरोग्यं मूलमुत्तमम्
२९१
आरोग्यस्यार्थमूलत्वम् - विदितमेवैतत् समेषामपि विद्वदग्रेसराणां यत्'सर्वे गुणाः काञ्चनमाश्रयन्ते', 'यस्यार्थास्तस्य मित्राणि', 'यस्यास्ति वित्तं स नरः कुलीनः', 'हिरण्यमेवार्जय निष्फला गुणाः' इत्यादीनि सुभाषितानि द्रव्यार्जनमेव समर्थयन्ति । अर्थार्जनं वित्तोपार्जनं द्रविणनिचयावाप्तिर्वा किं निःसत्त्वेन, किं रुजाक्रान्तेन किं क्षीणबलेन वा साध्यम् ? अर्थोपार्जने शक्तिमत्त्वस्य, उत्साहस्य, आरोग्यस्य च प्रतिपदम् आवश्यकताऽनुभूयते । अतएव - ‘अनिर्वेदः श्रियो मूलम्’, 'अध्यवसायः श्रियो मूलम्,' 'उद्योगिनं पुरुषसिंहमुपैति लक्ष्मी:', इत्यादिकं व्यादिश्यते ।
आरोग्यस्य काममूलत्वम् - सांसारिका विषयभोगाः, विलासाः, मृगनयन्यो रमण्याः, विविध-रस-व्यञ्जन-संवलितानि भोज्यानि विविधानि च भौतिकानि सुखानि स्वस्थेनैव कलेवरेणोपभोक्तुं शक्यन्ते । स्वास्थ्याभावे क्षुधोऽपचयः, शिरोवेदनादिवृद्धिः, व्याधिग्रस्तत्वं शक्तिक्षयश्च । एवं नैरोग्यमेव भौतिकविषयोपभोगक्षमताम् आपादयति ।
आरोग्यस्य मोक्षसाधनत्वम् - मोक्षावाप्तये तपश्चरणं साधनाश्रयणं प्राणायामादिकं चाश्रीयते । तदर्थमपि आरोग्यस्यानिवार्यत्वम् । अतएव गीतायां प्रतिपाद्यते
यन्ते ।
नात्यश्नतस्तु योगोऽस्ति, न चैकान्तमनश्नतः ।
न चातिस्वप्नशीलस्य, जाग्रतो नैव चार्जुन ॥ गीता ६-१६ युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु ।
युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ॥ गीता ६-१७ आरोग्यस्य साधनानि - रोगनिदानरूपेणाचार्यैः षट् कारणानि व्याहि
अत्यम्बुपानाद् विषमाशनाच्च, दिवा शयाद् जागरणाच्च रात्रौ । संरोधनाद मूत्रपुरीषयोश्च षड्भिः प्रकारैः प्रभवन्ति रोगाः ॥
सर्वाण्येतानि रोगकारणानि सावधानतया परियाणि । स्वास्थ्यलाभाय बहुविधा व्यायामा निर्दिश्यन्ते । यथा - भ्रमणम्, धावनम्, क्रीडनम्, तरणम्, अश्वारोहणम्, मल्लयुद्धम्, इत्यादीनि । छात्रोपयोगिक्रीडासु पादकन्दुकक्रीडा, यष्टिकक्रीडा (हॉकी), करकन्दुक ( वॉलीबाल ) - क्रीडा च रुचिकरा : स्वास्थ्यafधन्यश्च । व्यायामेन शरीरपुष्टिश्चेतः प्रसादश्च । अतएवोच्यते—'स्वस्थे चित्ते बुद्धयः प्रस्फुरन्ति' । स्वस्थे चित्ते ज्ञानोदयः, स्फूर्तिसमन्वयश्च । स्वस्थस्यैव सर्वत्रादरः प्रतिष्ठा च । 'कृशे कस्यास्ति सौहृदम् ।' अतः सिध्यति — 'धर्मार्थकाममोक्षाणाम आरोग्यं मूलमुत्तमम् ।'