SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ८९. उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीः ( १. नास्त्युद्यमसमो बन्धुः २. क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे, ३. उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । ) को नामोद्योगः ? -- एकोद्देश्येन सावहितेन चेतसा श्रमपूर्वं कृतं कर्म उद्योग इत्यभिधीयते । उद्योग एव उद्यम - पुरुषार्थ - अध्यवसाय प्रयत्नादिभिः शब्दैर्व्यवह्रियते । उद्योगे उद्यमे च महत्त्वाकाङ्क्षायाः, उत्कर्षस्य, प्रगतेः, विकासस्य, समुन्नतेश्च समन्वयोऽभीष्यते । उद्योग एव सकलेऽपि लोके जीवनस्य सर्वविधाम् आकाङ्क्षां सर्वविधं च मनोरथं पूरयति । स्वाभिलषितपूर्तये उद्योगाश्रयणम् अनिवार्यम् । उद्योगस्योपयोगित्वम् — सर्वोऽपि लोकः सुखम् अभिलष्यति, वैभवं लिप्सते, चिकीर्षितं विधित्सति, स्वकामनानुरूपं कर्मजातं निष्पादयितुम्, इच्छति च । तत्साधनाय उद्योगमन्तरेण नान्यत् साधनम् । उद्यम एव मनोबलविवर्धनपुरःसरं कर्मणि नियोजयति, चेतः प्रेरयति, जीवनम् उद्बोधयति, उत्साहं संचारयति, कार्यक्षमतां विवर्धयति, आत्मिक शक्ति स्वाभिमानं च समेधयति । एवम् उद्यमस्य सर्वासु क्रियासु अनिवार्यत्वं प्रेक्ष्यते । उद्यमेनैव सर्वाभीष्टलाभो वैभवावाप्तिश्चेत्युद्योग आश्रीयते । उक्तं च उद्योगिनं पुरुषसहमुपैति लक्ष्मीर्देवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या, यत्ने कृते यदि न सिध्यति कोऽत्र दोषः ॥ आलस्यम् उद्योगस्य परमोऽरातिः । सालसं न श्रीविन्दति । लक्ष्मीः श्रीः समृद्धिश्च सोत्साहं महोद्यमं कठिन कर्मोपशमित्त प्रत्यूहनिवहं दृढनिश्चयविदारितसंशीति-ध्वान्तमेव धीरधौरेयं वीरवरेण्यं च वृण्वते । उद्यमम् अन्तरेण सिंहोऽपि मृगादानेऽक्षमः । उद्यमम् आश्रित्येव पिपीलकाऽपि योजनानां सहस्रं याति । तुच्छाः पतत्रिणश्च योजनशतम् उड्डीयन्ते । यत्नाभावे वैनतेयोऽपि पदैकमपि प्रसतु न क्षमते । अतएवोच्यते मनोरथैः । आलस्यं हि मनुष्याणां शरीरस्यो महान् रिपुः । नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥ उद्यमेन हि सिध्यन्ति कार्याणि न नहि सुप्तस्य सिंहस्य प्रविशन्ति योजनानां सहस्रं तु शनैर्गच्छेत् अगच्छन् वैनतेयोऽपि पदमेकं न मुखे मृगाः ॥ पिपीलिका । गच्छति ॥ नास्त्युद्यमसमो बन्धुः -- को नाम बन्धुः ? यो हि विषमायां स्थितो, विषमे काले, विपन्नायां चावस्थायां साहाय्यम् आचरति, सहयोगम् आविर्भाव
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy