________________
२९३
उद्योगिनं पुरुषसिंहपैति लक्ष्मीः यति, सहानुभूति प्रकटयति, कष्टनिवारणे प्रभवति च, स एव बन्धुः सखा मित्र हितकृत् च । उद्यम एव स गुणो यो विषमे काले, विपत्पारावार-निमग्न-लोकोद्धृतौ च साहाय्यम् आचरति, धैर्य प्रेरयति, शान्ति प्रापयति, आत्मविश्वास जागरयति च, अतः सः बन्धुरिति व्यवह्रियते । उद्यमम् आश्रितस्य नात्मावसादः, न हीनत्वभावना, न च दुःखदावाग्नि-सन्तापः । अतएवोद्यमः प्रशस्यते । उच्यते च-नास्त्युद्यमसमो बन्धुः ।।
उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः-यजुर्वेदे भगवद्गीतायां च निर्दिश्यते यत् कर्मैव मानवस्य जीवनम् । अनाश्रित्य कर्म जीवननिर्वाहोऽपि दुष्करः । योगक्षेमावाप्तये, सुखसाधनाय, शरीरयात्राप्रसिद्धयर्थं च कर्माश्रयणम् अनिवार्यम् ।
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः। यजु० ४०-२ नियतं कुरु कर्म त्वं कर्म ज्यायो झकर्मणः।
शरीरयात्राऽपि च ते न प्रसिध्येदकर्मणः ॥ गीता ३-८
कर्मण्येव मानवाधिकारः, न तु कर्मफलप्राप्तौ । अतः कर्मफलासक्तिम् अनाश्रित्य कर्तव्यभावनयैव कर्म संपादनीयम् । उक्तं च
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ गीता २-४७
निष्कामभावनया कृतं कर्म सर्वकर्मभ्योऽतिरिच्यते । सिद्धिरसिद्धिर्वा, लाभो हानिर्वा, सर्वमेतत् न कर्तव्यभावनोदये निरीक्ष्यते विविच्यते च । क्वचित् कृतेऽपि कर्मणि, विहितेऽपि यत्ने, यदि न स्यात् फलावाप्तिः, तत्र न कश्चन दोषभाग् भवति । कृते च कर्मणि को दोष इति साध्वन्वेष्टव्यः । अतएवोच्यते
यत्ने कृते यदि न सिध्यति कोऽत्र दोषः॥ हितो० प्र० ३१ क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे-मनोबलसमवेतानाम्, आत्मिकबलसंपुष्टानाम्, मानधनानां च कार्याणि स्वसत्त्वम् आश्रित्यैव प्रवर्तन्ते । ते 'कार्य वा साधयेयं शरीरं वा पातयेयम्' इति मन्त्रम् उद्घोषयन्ति जयन्ति च । वस्तुतो जीवने सत्त्वमेव कार्यसिद्धर्हेतुः । अतएव रामायणे निगद्यते-'अनिर्वेदः श्रियो मूलम् ।' अतएव श्रीरामचन्द्रः स्वमनोबलेनैव सर्वसाधनसंपन्नं लौकिक-साधन-समन्वितं दशाननं विजिग्ये । महात्मा गान्धिः आत्मिकबलाश्रयणेनैव आंग्ल-शासकवृन्दं विजित्य भारतवर्ष स्वातन्त्र्यम् अगमयत् । सर्वमेतत् सत्त्वमूलकमेव । अतएवोच्यते-क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे।
यत्रोद्यमस्यावस्थानं तत्रैवेश्वरस्यापि साहाय्यम् । 'नायमात्मा बलहीनेन