SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ २९४ संस्कृतनिबन्धशतकम् लभ्यः' इत्यत्र आत्मबल-संपन्नस्यैव विभुः साहाय्यम् आचरति । यत्रोद्यमादयः षड् गुणा वर्तन्ते, तत्र विभुरपि सहायकृदिति साधु प्रतिपाद्यते । उद्यमः साहसं धैर्य बुद्धिः शक्तिः पराक्रमः। षडेते यत्र वर्तन्ते तत्र साहाय्यकृद् विभुः॥ उद्यमनव निर्धनाः सधनाः, अज्ञा ज्ञानसंपन्नाः, अकुशलाः कुशलाः, निर्बला: सबलाः, दीना हीनाश्च सर्वविध-विभव-समन्विताश्च जायन्ते । उद्यमेनैव वाल्मीकि-व्यासादयः कविवरेण्याः संजाताः। महाकविः कालिदासश्चोद्यमेनैव कविकुलगुरुः, कविता-कामिनीकान्तश्च बभूव । सर्वमेतद् उद्यमस्यैव महिमानं व्यनक्ति ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy