________________
९०. उद्धरेदात्मनात्मानं नात्मानमवसादयेत्
(मन एव मनुष्याणां कारणं बन्धमोक्षयोः) आत्मबलम्-लोके न काचिदपि शक्तिस्तादृशी बलवती फलवती सकलसामर्थ्यवती च, यादृशी आत्मशक्तिः। आत्मिकशक्तेौरवं नानुमातुं न च वर्णयितुं शक्यते । आत्मबलेन किं किं न साध्यते । आत्मबलेनैव इच्छाशक्तेरुद्गमः । इच्छाशक्तेः प्रतापेन न केवलं भौतिकम् अभीष्टं पूर्यते, अपि तु ईश्वरावाप्तिरपि तीव्रमनःसंकल्प-साध्या । अतएव योगदर्शने प्रोच्यते
तीव्रसंवेगानामासन्नः । योग० १-२१
न बाह्या शक्तिस्तथा मानवस्योपकी, कार्यसाधिका च, यथा आत्मशक्तिः, आत्मविश्वासः, आत्मबलं च। आत्मबलसंग्रहे कृते सति दुष्करमपि सुकरम्, दुर्लभमपि सुलभम्, दुर्जयमपि सुजयं संपद्यते। का वा शक्तिरासीत् पुरुषोत्तमस्य रामस्य यत् स सैन्यबलहीनोऽपि, निर्वासितोऽपि, वानरमात्रसहायोऽपि त्रिभुवनविजयिनं सर्वसाधनसंपन्नं विविध-माया-बल-समवेतं रावणं विजयेत ? सा शक्तिरात्मशक्तिरासीत्, या रामं विजय-वैजयन्तीं प्रापयत् । उक्तं च
विजेतव्या लङ्का चरणतरणीयो जलनिधिविपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः। तथाप्येको रामः सकलमवधीद् राक्षसकुलं क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे ॥ भोजप्र० १७० .
उद्धरेदात्मनात्मानं नात्मानम् अवसादयेत्-लोके कस्य नाभीष्टा आत्मोन्नतिः। सर्वोऽपि लोक आत्मोन्नत्यै आत्माभ्युदयाय स्वाभिलषितपूर्तये च यतते अध्यवस्यति व्यवस्यति च । आत्मोन्नतिः सर्वस्य प्रेष्ठा गरिष्ठा च । यतो हि-'आत्मलाभमनु लाभसम्पदः' । स्वोन्नतिः सर्वोत्तमा। कश्च तदवाप्त्युपाय इति विचारणायाम् अवगम्यते यन्न परसाहाय्येनात्मोन्नतिः सुलभा सूकरा च । आत्मोन्नत्यै स्वावलम्बनं स्वपुरुषार्थाश्रयणं च सर्वोत्कृष्टम् । यत्र स्वावलम्बनं साहसं धैर्य च तत्र परमेश्वरोऽपि साहाय्यकृद् भवति । उक्तं चGod helps those who help themselves.
उद्यमः साहसं धैर्य बुद्धिः शक्तिः पराक्रमः।
षडेते यत्र वर्तन्ते तत्र साहाय्यकृद् विभुः॥ भगवद्गीतायां श्रीकृष्णेन प्रतिपाद्यते यद् आत्मबलाश्रयणेन आत्मोन्नतिर्जायते। पराश्रयणं दुःखोदकम् । आत्मैव पुरुषार्थाश्रयणे बन्धुत्वम् आपद्यते, हीनभावोपासने च शत्रुत्वेन विपरिणमते । अतो न कदाचिदपि हीनभावनाऽऽश्रयणीया । उच्यते च