________________
२९६
संस्कृतनिबन्धशतकम् उद्धरेदात्मनात्मानं नात्मानमवसादयेत् ।
आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः॥ गीता ६-५
सुखदुःखयोर्लक्षणं व्यादिशता व्यासेनाप्येतदेव समर्थ्यते यत् स्वप्रयत्नाश्रितं यत् तत् सुखम्, यत् परायत्तं तद् दुःखमिति ।
सर्व परवशं दुःखं सर्वमात्मवशं सुखम् ।
एतद् विद्यात् समासेन लक्षणं सुखदुःखयोः ॥ महा०
मन एव मनुष्याणां कारणं बन्धमोक्षयोः-मन एव लोके सर्वोत्तम ज्योतिः । अतएव यजुर्वेदे मनो ज्योतिषां ज्योतिरिति वर्ण्यते ।
यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति । दूरगमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसंकल्पमस्तु ॥ यजु० ३४-१
मनोबलं यथा शक्तिप्रदम्, न तथा लोके किंचनान्यत् । मनोबलमेव इच्छाशक्ति ( will-power )-रूपेण विपरिणमते । मनोबलस्य इच्छाशक्तेर्वा महत्त्वं सर्वलोकविदितम् । मनोबलेनैव महात्मा गान्धिः आंग्लशासकान् विजित्य भारत स्वातन्त्र्यम् आनैषीत् । मन एव सत्त्वगुणोपेतं चेत् तन्मोक्षसाधनं जायते। तदेव विपरीतं सत् तमोगुणोपेतं बन्धनस्य कारणम् आपद्यते । अतएवोच्यते'मन एव मनुष्याणां कारणं बन्धमोक्षयोः'।
कथमिव मनसो निग्रहो वशीकरणं वा स्यादिति जिज्ञासायां गीतायां प्रतिपाद्यते यद् इन्द्रियजयेन अभ्यास-वैराग्याभ्यां च मनसो वशीकरणं संजायते । सति इन्द्रियजये आत्मा बन्धुरूपः, तदभावे च शत्रुरूपः ।
बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः।
अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ॥ गीता ६-६ - नीतिश्लोकेऽप्येतदेव समर्थ्यते यत्-'आत्मबुद्धिः सुखायैव, गुरुबुद्धिविशेषतः' इत्यनेन आत्मसाहाय्यमेव सुखसाधकं प्रोच्यते । महात्मना बुद्धेन एतदेवाश्रित्य मनसो महत्त्वं निर्दिश्यते यन्मन एव सर्वार्थसाधकम् । स्वस्थेन मनसा कृतं कर्म सुखदच्छायव सुखसाधकम् ।
मनो पव्वंगमा धम्मा मनोसेट्टा मनोमया। मनसा चे पसन्नेन भासति वा करोति वा। ततो 'नं सुखमन्वेति छाया' व अनपायिनी ॥धम्मपद १-२
अन्यत्रापि तेनोपदिश्यते यद् आत्मैव आत्मनः प्रभुः, आत्मैव आत्मनो गतिः । अत आत्मानं संयच्छेत, वणिक् सदश्वमिव ।
अत्ता हि अत्तनो नाथो अत्ता हि अत्तनो गति । तस्मा सामयत्तानं अस्सं भद्रव वाणिजो॥धम्मपद २५-२१ एवं सिध्यति यद्-'उद्धरेदात्मनात्मानं नात्मानमवसादयेत्' । .