SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ ९१. योगः कर्मसु कौशलम् ( १. कर्मण्येवाधिकारस्ते०; २. कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । ) कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः - 'यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्म:' ( वैशेषिक० ) इति व्याहरता महर्षिणा कणादेन, 'भोगापवर्गार्थं दृश्यम्' ( योग० २-१८ ) इति च प्रतिपादयता महर्षिणा पतञ्जलिना साध्विदं निर्दिश्यते यद् जीवनस्य लक्ष्यं लौकिक- पारलौकिकोभय-सुखावाप्तिः । नान्तरेण कर्म लौकिकी पारलौकिकी वा सिद्धिः साध्या । कर्मणैव जीवनस्य साफल्यम् । कर्मैव स्वाभीष्टसाधन-पुरःसरं मोक्षावाप्तिमपि साधयति । अतएव यजुर्वेदे आदिश्यते यत् कर्माणि कुर्वन्नेव शतवर्षं यावद् जिजीविषेत् । निष्कामकर्मभावनया कर्मकरणेन न बन्धनावाप्तिः, न च कर्मफलावलेपः । उक्तं चकुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ यजु० ४०-२ कर्मण्येवाधिकारस्ते— कार्यप्रवृत्तिमन्तरेण जीवने न किंचित् साफल्यं संभाव्यते । अतएव कर्मणोऽनिवार्यत्वं शस्यते निर्दिश्यते च । उक्तं चनियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः । शरीरयात्रापि च ते न प्रसिध्येदकर्मणः ॥ गीता ३-८ कृतेऽपि कर्मणि कथमिव कर्म बन्धनसाधनं न स्याद् इति जिज्ञासायां प्रोच्यते यद् इन्द्रियनिग्रह - पुरःसरम् अनासक्तिभावनया कृतं कर्म न बन्धन हेतुत्वं भजते । अतएवोच्यते स्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन । कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ॥ गीता ३-७ एवं गीतायां प्रतिपाद्यते यद् मानवेन स्वजीवन निर्वाहार्थम्, आजीविकासंचालनार्थम्, वृत्तिप्रवर्तनार्थं च कर्म कार्यम् । तच्च अनासक्ति भावनया विधेयम्, न च फलाभिलाषस्तत्र श्रेयस्करः । फलकामनाऽभावेऽपि अकर्मणि प्रवृत्ति: सर्वथा दुःखायैव । अतएवोच्यते- कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ॥ गीता २-४७ योगः कर्मसु कौशलम् - - कर्मसु कौशलमेव योगः । किमत्र कर्मकौशलेनाभिप्रेतम् ? कुशान् लाति छिनत्ति इति कुशलः । यथा सावधानेन तीक्ष्णकुशाग्रच्छेदनेन कुशलत्वं सिध्यति, तथैव कर्म-विषयेऽपि कुशलत्वम् इष्यते । कर्म द्विविधम्- - १. सुखोदर्कम्, २. दुःखोदकं च । सकामभावनया फललिप्सया च क्रियमाणं कर्म मनोनुकूल - फल - लाभाभावे दुःखोदर्कम् । निष्कामभावनया च क्रियमाणं कर्म फलेप्साऽभावात् सुखोदकं सुखसाधकं च । अतएव भगवता
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy