________________
२९८
संस्कृत निबन्धशतकम्
कृष्णेन संदिश्यते यद् ज्ञानपूर्वकं कृतं कर्म पापपुण्यात्मकं द्विविधमपि फलं परिजहाति । एतादृशं कर्म कौशलेन संपादितं प्रोच्यते । एतदेव योगस्य स्वरूपम् । उक्तं च—
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद् योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ गीता २ - ५०
यत्र निष्कामभावना तत्र शाश्वती शान्तिः, अन्यत्र च सकामत्वेन बन्धनम् । अतः कथं कार्यं कार्यम् इति जिज्ञासायां कमलपत्रनिदर्शनेन विषयोऽयं विशदीक्रियते । यथा सलिलस्थमपि पद्मपत्रं न सलिलेन लिप्यते, तथैव अनासक्तभावेन ब्रह्मार्पणबुद्धया च कृतं कर्म न दोषाय, न च बन्धनाय । ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः । लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥ गीता ५-१० युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् ।
अयुक्तः कामकारेण फले सक्तो निबध्यते ॥ गीता ५- १२
वासनाक्षयाद् योगसिद्धिः -- मुक्तिकोपनिषदि विषयोऽयं महता विस्तरेण विविच्यते । तत्र चैवं प्रतिपाद्यते यदियं वासनासरित् शुभाशुभाभ्यां मार्गाभ्यां प्रचरति सा शुभे पथि नियोज्या । यदा वासनेयम् अशुभाद् निवर्त्य शुभे पथि नियोज्यते तदा सर्ववासनाक्षयाद् मुक्तिपदलाभो भवति । सेयं वासना विविध - जन्मसंबद्धा । इयं चिराभ्यासयोगेन क्षीयते । यावद् वासना - समुदयो न तावद् मानसिक शान्तिः । वासना- विनाशे तु चेतः शान्ताचिर्दीप इव शमम् उपैति । वासनाहेतोरेव प्राणसंचार:, तेन च वासना, तथा च चित्तबीजाङ्कुरोद्गमः । चित्तवृक्षस्य द्वे बीजे - प्राणस्पन्दनं वासना च । द्वयोरेकस्यापि निग्रहे द्वयोरेव विनाशः संजायते । अस्य संसारवृक्षस्य मन एव मूलम् । तदेव संकल्परूपेण प्रतिपुरुषम् अवतिष्ठते । तस्योपशमेन संसारवृक्षस्य विनाशः संजायते । वासनयैव बन्धनम्, वासनाक्षयेण च मोक्षः । उक्तं च
शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् । मुक्तिको० ५ पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥ मुक्ति० ६ वासनाविलये चेतः शममायाति दीपवत् ॥ मुक्ति० १८ द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने ।
एकस्मिश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः ॥ मुक्ति० २७ अस्य संसारवृक्षस्य मनो मूलमिदं स्थितम् । संकल्प एव तन्मन्ये संकल्पोपशमेन तत् ॥ मुक्ति० ३७ बन्धो हि वासनाबन्धो मोक्षः स्याद् वासनाक्षयः । मुक्ति० ६८