________________
.९२. गुणाः पूजास्थानं गुणिषु न च लिङ्ग न च वयः
( १. गुणैर्गौरवमायाति न महत्यापि सम्पदा; २ गुरुतां नयन्ति हि गुणा न संहतिः; ३. तेजसां हि न वयः समीक्ष्यते; ४. योऽनूचानः स नो महान् ।)
गुणाः पूजास्थानम्-संसारेऽस्मिन् सन्ति बहनि वस्तुनि, यानि पुरुष संमानं लम्भयन्ति, यथा धनम्, वैभवम्, कला, सौन्दर्यम्, विद्या, चारित्र्यादिकं च। तत्र महाकवेर्भवभूतेर्मतमिदं यत्-न सौन्दर्यादिना, न लिङ्गविशेषण पुंस्त्वेन स्त्रीत्वेन वा, न च वैभवेन गुरुत्वम् आसाद्यते, अपि तु गुणैरेव गौरवम् अवाप्यते । गुणगौरवसंपन्ना भुवि भूपतिभिरपि आद्रियन्ते संमान्यन्ते च । किनु कारणं यद् ऋषयो महर्षयो यतयः संन्यासिनश्च सर्वलोकवन्द्यतां समधिगच्छन्ति ? तत्र गुणगौरवम्, चारित्र्यादिमहत्त्वम्, तपःपावनत्वादिकं च तेषां गुणोत्कर्षे हेतुः । यत्र यत्र गुणवत्त्वम् तत्र तत्रादरास्पदत्वम् । गुणा ब्रह्मणोंऽशरूपेण मानवे संस्थिताः । तेषां समुत्कर्षो जीवने ब्रह्मत्वाधानाद् ज्योतिज्वलयति, तेजः प्रवर्तयति, ओजश्च विकासयति । अतएव गुणवृद्धेषु ज्ञानवृद्धेषु च न वयः संलक्ष्यते । एतदेव कालिदासेन समर्थ्यते यत् तेजस्विनां वयो न गण्यते । 'तेजसां हि न वयः समीक्ष्यते' ( रघु० ११-१)। यः कोऽपि वा गुणगौरव संपन्नः, सद्भावभूषाभूषितः, ज्ञानालंकृतः, शीलसमन्वितश्च स एव सर्वेषां वन्द्यो मान्यः पूज्यश्च संपद्यते । अतएवोच्यते
गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः। उत्तर० ४-११
योऽनूचानः स नो महान्–वेदेषु शास्त्रेषु च विप्राणां ज्ञानतो ज्येष्ठत्वं श्रेष्ठत्वं च स्वीक्रियते । मनुस्मृती कथनमेतद् निदर्शनेन समर्थ्यते यत् शिशुः आङ्गिरसः कविः पितरौ पाठयन् तान् 'पुत्रकाः' इत्युवाच । पितरौ बालस्य कथनम् अनुचितं मन्वानौ देवानुपेत्य तान् अपृच्छताम् । देवास्तु शिशोः कथनं न्याय्यमिति समर्थितवन्तः । आदिष्टं च
अज्ञो भवति वै बालः पिता भवति मन्त्रदः। अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥ मनु० २-१५३
एतत् स्मृतिशासनम् अनुरुध्य यः कोऽपि ज्ञानोपदेष्टा शिक्षकश्च स पितृतुल्यः, शिष्यश्च पुत्रतुल्यः । न वयसा वित्तेन परिवारादिना वा महत्त्वम्, अपि तु ज्ञान-विज्ञान-निष्णातत्वमेव महत्त्वस्य कारणम् । विप्राणां ज्ञानतः श्रेष्ठत्वम्, क्षत्रियाणां पराक्रमतः, वैश्यानां च धन-धान्य-समद्धया। शूद्राणामेव केवलं जन्मतो वयसा वा ज्येष्ठत्वं गण्यते । उक्तं च
न हायनैर्न पलितैर्न वित्तेन न बन्धुभिः। ऋषयश्चक्रिरे धर्म योऽनूचानः स नो महान् ॥ मनु० २-१५४