________________
३००
संस्कृतनिबन्धशतकम् विप्राणां ज्ञानतो ज्यैष्ठ्यं क्षत्रियाणां तु वीर्यतः।
वैश्यानां धान्यधनतः, शूद्राणामेव जन्मतः॥ मनु० २-१५५
गुरुतां नयन्ति हि गुणा न संहतिः ( कि० १२-१०)-महाकविना भारविणा प्रतिपाद्यते यद् गुणैरेव मानवैर्गौरवं लभ्यते । न वयसा, न शरीरस्थौल्येन, नान्येन वा विभवादिना। अतएव लोकेऽवलोक्यते यद् गुणैरेव गौरवं कुलीनत्वं पूज्यत्वं च । कला-समृद्ध्यैव सुधांशुः शंभुना शिरसि धार्यते । गणैरेवोच्चत्वं तुङ्गत्वं च । प्रासादशिखर-गतोऽपि काको नाद्रियते, नीचैरासनगतोऽपि गरुडः पूज्यते । अतो गुणा एव साध्याः, गुणार्जनमेव श्रेयस्करम् । नहि केवलम् आडम्बरैः प्रपञ्चैर्वा नरो गौरवमवाप्नोति । क्षीरविरहिता गावो न सुन्दरघण्टा-रवेणैव विक्रीयन्ते । उक्तं च
गुणेषु क्रियतां यत्नः किमाटोपैः प्रयोजनम् । विक्रीयन्ते न घण्टाभिर्गावः क्षीरविजिताः॥ शाङ्गधरप० २९८
न केवलमेतदेव, नैव पितृवंशकीर्तनं स्वपूर्वजगुणानुवादो वा मानवम् आदरम् आवहति, अपि तु समादरकारणं गुणोच्चय एव । गुणोत्कर्षवैशिष्टयादेव वासुदेवः संमान्यते पूज्यते च, न तु तज्जनको वसुदेवः । गुणा एव नरस्य सौभाग्यवर्धकाः सौरभसंचारकाश्च । अतएव द्विरेफाः केतकीपुष्पगन्धम् आघ्राय स्वयं तत्रोपयान्ति । एवं गुणा दूतत्वं भजन्ते ।
गुणाः कुर्वन्ति दूतत्वं दूरेऽपि वसतां सताम् । केतकीगन्धमाघ्राय स्वयमायान्ति षट्पदाः॥शागधरप० २९०
शरीरस्य गुणानां च गौरवपरीक्षणे गुणा एव गौरवातिशयम् आश्रयन्ते । शरीरं क्षणभङ्गुरम्, गुणास्तु अविनश्वराः कल्पान्तस्थायिनश्च ।
शरीरस्य गुणानां च दूरमत्यन्तमन्तरम् । शरीरं क्षणविध्वंसि कल्पान्तस्थायिनो गणाः॥हितो० १-४८
गणैर्गौरवमायाति न महत्यापि सम्पदा-न विभवेन, न धनधान्येन, न समृद्धया च, नरो लोके गुरुत्वं भजते, अपि तु गुणगणसमृद्धिरेव गौरवस्य निदानम् । गौरवस्य कारणानि सन्ति गुणा एव । ज्ञान-विद्या-धर्म-परोपकारसच्चारित्र्यादयो गुणा यमेव भूषयन्ति, स एव गुणगौरवनिधानताम् आपद्यते । गुणाः कस्तूरिकासौरभवद् दिदिगन्तरं स्वसौरभमहिम्ना वासयन्ति । तदर्थम् आत्मप्रशंसा हीनत्वभावनामूलैवावगन्तव्या । उक्तं च
यदि सन्ति गुणाः पंसां विकसन्त्येव ते स्वयम् ।
नहि कस्तूरिकामोदः शपथेन विभाव्यते ॥ कुवलयानन्द ५१
अतएवोच्यते यद् गुणार्जने एव मानवेन प्रयत्न आस्थेयः । गुणैरेव दुर्लभमपि पदम् अवाप्तु पार्यते । गुणगौरवेणैव चन्द्रमसा शिवशिरोभूषणत्वम् आपन्नम्।