SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ ३०१ गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः गुणेषु यत्नः पुरुषेण कार्यो न किंचिदप्राप्यतमं गुणानाम् । गुणप्रकर्षादुडुपेन शंभोरलध्यमुल्लङ्घितमुत्तमाङ्गम् ॥ . मृच्छक० ४-२३ गुणैरेव कौशेयं सुवर्णं पद्म चन्द्रादिकं च प्रशस्यते । सर्वमेतद् गुणोत्कर्षस्यैव महत्त्वम् । नहि गौरवं महत्त्वं वा जन्ममूलकम् । कौशेयं कृमिजं सुवर्णमुपलाद् दूर्वापि गोरोमतः पङ्कात् तामरसं शशाङ्क उदधेरिन्दीवरं गोमयात् । काष्ठादग्निरहेः फणादपि मणिोपित्ततो रोचना प्राकाश्यं स्वगुणोदयेन गुणिनो गच्छन्ति किं जन्मना ॥ पंचतंत्र १-१०३ तेजसां हि न वयः समीक्ष्यते--गुणगौरवादेव तेजस्विनां वयो नालक्ष्यते । स्वोत्कर्षमूलैव तेषां प्रथितिरातिश्च । अचिरोद्गतस्यापि भानोः पादाः भूभृतां शिरसि निपतन्ति । बालोऽपि सिंहशावको मदमुचां गजेन्द्राणां मूर्धनि पादं निधत्ते । सर्वमेतत् तेजस्वितामूलकमेव । नहि तेजस्विषु वयोवृद्धिगुणवृद्धेमूलम् । उक्तं च बालस्यापि रवः पादाः पतन्त्युपरि भूभताम् । तेजसा सह जातानां वयः कुत्रोपयुज्यते ॥ पंचतत्र १-३५७ सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु । प्रकृतिरियं सत्त्ववतां न खलु वयस्तेजसो हेतुः॥ भर्तृ० नीति० ३८ .
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy