________________
९३. सहसा विदधीत न क्रियाम् प्रस्तावना-महाकवर्भारवेर्महाकाव्ये किरातार्जुनीये सन्ति शतशः सूक्तिमुक्ताः । तत्रापि द्वित्राः सन्ति सूक्तयो याश्चकासति तरणि श्रियमिव । तास्वप्यन्यतमैषा सूक्तिः । सूक्तं तेन महाकविना यत् कोऽपि जन: सहसा किमपि विधेयं न विदधीत, यतो ह्यविवेकः परमापदां पदमस्ति । ये च विमृश्यकारिणो भवन्ति त एव श्रियः श्रयन्ते । यथोक्तं तेन
सहसा विदधीत न क्रियामविवेकः परमापदां पदम् । वृणुते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ किराता० २-३०
विवेकः संपदां मूलम--को नाम विवेकः ? कश्चाविवेकः ? क उपयोगो विवेकस्य ? किमिह साध्यं विवेकेन ? यदि नोपादीयतेऽयं कथमिव विपदां निदानत्वेन परिणमते ? विवेचनमेव विवेक इति । सदसतोः, पुण्यापुण्ययोः, कर्तव्याकर्तव्ययोः, हेयोपादेययोश्च येन विधिवद् विवेचनं क्रियते स विवेक इत्यभिधीयते । इतरश्चाविवेक इत्याख्यायते । विवेकस्य महत्युपयोगिता जीवनेऽस्मिन् । विवेक एव सदसतोः, पापपुण्ययोः, कर्माकर्मणोश्च फलाफलं गुरुलाघवं च चिन्तयति । स एव किं हेयं किच्चोपेक्ष्यमिति सन्दिशति । विवेक एवेह जगति ज्ञानमिति, बुद्धिरिति, धीरिति च व्यवह्रियते। विवेकमन्तरेण न भयान भेदो मनुष्येषु पशुषु च । अस्ति मानवे विवेकशक्तिः । यया सोऽर्थमनर्थं च बहुधा विभाव्य अर्थसाधकम् उपादत्तेऽनर्थसाधकं चोज्झति । जीवने हि सर्वस्येष्टं सुखम् । सर्वो हि यतते सुखावाप्तये । नहि दुर्जनोऽपि खलोऽपि मूढोऽपि हीनेन्द्रियोऽपि दुःखमिष्टत्वेन गणयति । सोऽपि सुखमेव कामयते, यतते च तल्लाभाय । अङ्गीकृतायाम् ईदृश्याम् अवस्थायां को तु मार्गो यः सुखसाधकत्वेन प्रवर्तेत । विचारचक्षुषा चिन्त्यते चेद् विवेकस्य महत्त्वं स्फुटं प्रतीयते । सर्वमपि साध्यं साध्यते विवेकेनैव । विवेकपूर्वा कृतिरेव लम्भयति श्रियम् । विवेक एव सुखस्य मूलम्, शान्तेनिधानम, धृत्या निदानम्, श्रिय आश्रयः, गुणानाम् आगारम्, विभवस्य भूमिः, उन्नतेः साधनम्, सत्कर्मणाम् आकरः, विनयस्य कारणम्, शीलस्य संधायकश्च । विवेक आश्रितश्चेद्, न जीवनेऽवसादावसरः । अनुपादत्तश्चेदयं प्रतिपलं प्रतिपदं चोपतिष्ठन्ते, विपदो दुःखानि प्रत्यूहाश्च ।
___ अविवेकः परमापदां पदम्--ये हि विपश्चितो विचारशीलाश्च ते प्रतिपदं सम्यग् अवधार्य वस्तुस्थिति शान्तेन स्वान्तेन कर्तव्यस्याकर्तव्यस्य च गुरुलाघवं विमश्य यद् हितसाधकं सुखकारकं च तदेवोपाददते । नहि भयाद् वा, ह्रिया वा, सहसा वा, किञ्चित्तेऽनुतिष्ठन्ति । यत्कर्म सुविचार्य क्रियते तत् सत्फलमादधाति । अत उच्यते--