SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ भाषोत्पत्तिविषयका वादाः हेराक्लितुसो मन्यते-'शब्दानाम् अस्तित्वं प्रकृती वर्तते। शब्दाः पदार्थानों छायावद् वर्तन्ते। मानवः स्वविचारानुरूपं पदार्थानां नामानि निर्धारयति' । दार्शनिको डेमोक्रितूसो मन्यते-'भाषा जन्या। शब्दा भावानां मर्तयः, कलाकृतयश्च ।' एपीक्यूरसो भाषायाः प्रकृति-प्रतिध्वनिमलत्वं निराचष्टे, तथा सति भाषा-साम्यं स्यात् । हुमबोल्टोऽपि एतदेव समर्थयते । भाषा ज्ञानमूला। मनोभावाभिव्यंजकतादयो वादाः न ज्ञानमूलत्वं भाषाया मन्यन्ते । यदि साधु परीक्ष्यते तहि सत्यां भावाभिव्यक्तरिच्छायाम् 'आवश्यकता आविष्काराणां जननी' इति सिद्धान्तम् अनुसृत्य केचन भावाश्चेतसि आविर्भवन्ति । प्रतिभावशात् तदर्थं कश्चन शब्द उपादीयते । तदुत्पत्तिः प्राक संकेतमूला भवति । वस्तुप्रयोजनम् उपादाय कश्चन शब्दः तदर्थम् अभिधातुम् उपादीयते । प्रतिभावतां तथा शब्दनिर्माणं प्रारभते । सामान्यो लोकस्तं शब्दम् आदत्ते प्रयुङ्क्ते च । एवं भाषोत्पत्तिः प्राक् संकेतमूला ( Symbolic ) भवति । उपचारपद्धत्या आश्रयणेन विविधेष्वर्थेषु एकस्यापि शब्दस्य प्रयोगः प्रारभ्यते। परिज्ञाते सति एकदा शब्दनिर्माणप्रकारे अन्यैरपि प्रतिभावद्धिः अन्ये शब्दा आविष्क्रियन्ते । . एवं भाषाया प्रतिभामूलकत्वं न विप्रतिपत्तिविषयः। प्रतिभा च दैवी। एवं दिव्योत्पत्तिवादः समस्यासमाधानं कर्तुप्रभवति ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy