________________
४५. अर्थविज्ञानम् ( १. अर्थविकासः, २. शब्दार्थविज्ञानम् ) अर्थविज्ञानस्य स्वरूपम्'--अर्थविज्ञान-शब्देन शब्दार्थविषयकं सर्वाङ्गीण विवेचनं चिन्तनं चाभीष्यते । शब्दार्थयोः कः संबन्धः? शब्दः कथम् अर्थम अभिव्यनक्ति ? अर्थ: कतिविधः ? अर्थस्य कतिविधो विकासः ? अर्थविकासस्य कानि कारणानि ? इत्यादयोऽनुयोगा अर्थविज्ञाने विविच्यन्ते।
___ अर्थविज्ञानस्य नामकरणम्-अर्थविज्ञानशब्दस्य पारिभाषिकेऽर्थे सर्वप्रथमं प्रयोगो महाभारते, तदनु कुमारिलभट्टकृते श्लोकवार्तिके, वेंकटमाधवकृते ऋग्वेदभाष्ये, मण्डनमिश्रकृते स्फोटसिद्धिग्रन्थे च प्राप्यते ।
शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा। ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ महाभारत, वन० २-१९ शब्दज्ञानार्थविज्ञानशब्दौ शास्त्रे तथा स्थितौ । श्लोक० शब्द० १३ यजुषामर्थविज्ञानं नाकर्मज्ञस्य सिध्यति । वेंकट, ऋग्भाष्य, पृ० ३
अर्थस्य महत्त्वम्-अर्थज्ञानम् अन्तरेण सर्वमेव वाङ्मयं भारभूतम् । अर्थज्ञ एव सर्व भद्रमश्नुते ।
स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽयम् । योऽर्थज्ञ इत्सकलं भद्रमश्नुते नाकमेति ज्ञानविधूतपाप्मा ॥
निरुक्त १-१८ गोपथब्राह्मणे रूपसाम्याद् अर्थसाम्यस्य समीपत्वं मन्यते । रूपसामान्यादर्थसामान्यं नेदीयः । ( गोपथब्राह्मण १-१-२६)
शतपथब्राह्मणे वाचो मनसोऽपि लघुत्वं प्रोच्यते । 'वाग्वै मनसो ह्रसीयसी' ( शत० १.४-४-७), निरुक्ते (२-१ ) 'अर्थनित्यः परीक्षेत, केनचिद् वृत्तिसामान्येन' । 'अर्थं वाचः पुष्पफलमाह' ( निरुक्त १-२० ) । इत्येवम् नर्वस्त्र महत्त्वं प्रतिपाद्यते ।
वाक्यपदीये श्लोकवातिके चार्थस्य स्वरूपं निर्दिश्यते यत्यस्मिस्तूच्चरिते शब्दे यदा योऽर्थः प्रतीयते । तमाहुरर्थं तस्यैव नान्यदर्थस्य लक्षणम् ॥ वाक्य०२-३३०
तत्र योऽन्वेति यं शब्दमर्थस्तस्य भवेदसौ ॥ श्लोक० १६० महाभाष्येऽर्थस्य शब्दादभिन्नत्वं प्रतिपाद्यते ।
१. विस्तृतविचेनार्थं द्रष्टव्यम्-लेखककृत-'अर्थविज्ञान और व्याकरणदर्शन' पृष्ठ १.४,
९८-१३५ ।