________________
१६२
संस्कृतनिबन्धशतकम् Sweet ) महाभागः समन्वयसिद्धान्तं समन्वितविकासवादं वा वरिष्ठं मनुते । तन्मतानुसारं सर्वेषां सिद्धान्तानां समन्वय आवश्यकः । मनोभावाभिव्यञ्जकतावादः, रणनसिद्धान्तः, श्रमध्वनि-सिद्धान्तश्च भाषोत्पत्तेः प्राथमिकीम् अवस्थां द्योतयन्ति । प्रतीकवादः, औपचारिक-प्रयोगाश्च द्वितीयाम् अवस्थां प्रकटयन्ति । तदनुसारम् अर्थ-विकासप्रक्रियाम् आश्रित्य अर्थविस्तारादिप्रक्रिया प्रावर्तत । प्रतीक-शब्दानाम् औपचारिक-शब्दानां लाक्षणिकानां च शब्दानां संख्याऽनुदिनं वर्धते वर्धिष्यते च ।
(१०) दिव्योत्पत्तिवाद-समीक्षा--दिव्योत्पत्तिवादः सामान्यतया सर्वैरेव भाषाविद्भिनिरस्यते । एवं सति दैवी भाषा एकरूपा स्यात्, विश्वभाषा चैका स्यात् । परन्तु सर्वमेतत् संस्कृतभाषाया वेदानां च प्रामाण्ये विप्रतिपत्ति प्रतिपादयति । विषयोऽयं वैज्ञानिकदृष्ट्या दार्शनिकदृष्ट्या च परीक्ष्यते चेत् तहि न तथा निरसनमर्हति । अत्र महर्षेः पतञ्जले:, भर्तृहरेः, हेराक्लितुस (Heraclitus)डेमोक्रितुस ( Democritus ) -प्रभृतीनां विचाराः सर्वथा विवेचनमर्हन्ति ।
महर्षिणा पतञ्जलिना महाभाष्ये प्रोच्यते-'सिद्धे शब्दार्थ-संबन्धे' (महा० आ०१), नित्यानि छन्दांसि, या त्वसौ वर्णानुपूर्वी साऽनित्या ( महाभाष्य ) अर्थात् शब्दार्थ-सम्बन्धो नित्यः । वेदानां वर्णानुपूर्वक्रमोऽनित्यः । ज्ञानं तु नित्यम् । ज्ञानं कथं नित्यम् ? संस्कारवशात् प्रतिमानवं ज्ञानं नित्यत्वेन भासते । प्रतिभा प्रतिमानवं भिद्यते, प्रवर्तते च । प्रतिभा ब्रह्मण ईश्वरस्य वा साक्षाद् रूपम् । प्रतिभैव जन्मान्तरगतमपि ज्ञानं समाहृत्य लोके निदधाति । तन्मलैव सर्वस्यापि जगतः प्रवृत्तिः। प्रतिभामूलैव भाषोत्पत्तिः । प्रतिभा च दैवोंऽशः । प्रतिभैव यथायथं शब्दान् प्रवर्तयति । प्रतिभाजुषां यथैव तदर्थावभासः, वस्तुप्रतीतिर्वा भवति, तथैव शब्दनिर्माणं प्रतिभावद्भिर्विधीयते । एवं भाषाभेदो भावभेद: शब्दभेदश्च लक्ष्यते । को नु शिक्षयति पक्षि-पश्वादिकं भाषणम् ? लूता कथं जाल-निर्माणे प्रभवति ? अश्व-कुक्कुरादयः स्व-स्वभावजं धर्म कथं प्रतिपद्यन्ते ? इत्यत्र भर्तृहरिणा प्रोच्यते यत् सर्वमेतत् प्रतिभावशत एव । प्रतिभैव शब्दस्यात्मा । सा च प्रतिमानवम आत्मरूपेण स्थितिं विधत्ते । उक्तं च भर्तृहरिणा वाक्यपदीये
यथा द्रव्यविशेषाणां परिपाकैरयत्नजाः। मन्दादिशक्तयो दृष्टाः प्रतिभास्तद्वतां तथा ॥ वाक्य० २-१५० स्वरवृत्ति विकुरुते मधौ पुंस्कोकिलस्य कः। जन्त्वादयः कुलायादि-करणे केन शिक्षिताः॥ वाक्य० २-१५१ आहार-प्रोत्यभिद्वेष-प्लवनादिक्रियासु कः। जात्यन्वयप्रसिद्धासु प्रयोक्ता मृगपक्षिणाम् ॥ वाक्य० २-१५२