SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ भाषोत्पत्तिविषयका वादाः गृह्णन्ति । न चैतेषां ध्वनीनां कोऽपि विशिष्टोऽर्थः । अत्र भावपक्षस्य अर्थपक्षस्य च शून्यत्वमेवावलोक्यते । (७) अनुकरणमलकतावादः-( Onomotopoeic Theory, Bowwo v Theory )-एष वादो ध्वन्यात्मकानुकरणसिद्धान्तः, शब्दानुकरणवादः, शब्दानुकरणमूलकतावादः, श्वध्वनिवादो वा कथ्यते । एतन्मतानुसारं ध्वन्यनुकरणमाश्रित्य कतिपया नामधेयशब्दाः प्रवर्तन्ते । यथा-काँव-कांव-ध्वनिमाश्रित्य काकशब्दः। एवमेव कोकिल-दर्दुर-खटखट-पटपट-घर-प्रभृतयः शब्दा वर्तन्ते। समीक्षा-मैक्समूलर ( Max Muller )-महोदयो वादस्यैतस्य निरर्थकत्वं कुक्कुरध्वनि-पर्यायं बाउ-वाउ-शब्दं प्रयुज्य प्रतिपादयति । एतादृशानां शब्दानां संख्याऽतीव लघ्वी । मतमेतद् हास्यास्पदमेव । (७) इंगित-सिद्धान्तः ( Gestural Theory )- एतन्मतानुसारं मानवः आङ्गिकचेष्टाभिः स्वीयं भावम् अभिव्यनक्ति । तदाधारेण केषांचित् शब्दानामुत्पत्तिर्ज्ञायते। डॉ० राये-महोदयः सिद्धान्तस्यास्य संस्थापकः । डार्विन ( Darwin )-महोदयोऽपि असंबद्धानां षड्भाषाणां तुलनात्मकेनाध्ययनेन एतदेव प्रमाणयति । रिचार्ड ( Richard ) - महोदयः स्वीये Human Speech ग्रन्थे Oral Gesture Theory मौखिकेङ्गितसिद्धान्तनाम्ना एतत् प्रस्तौति । एलेक्जेण्डर जोहान्सन ( Alexander Johanson ) - महोदयोऽपि प्रायेणैतत् समर्थयते । सोऽयं भाषाविकासस्य स्तरचतुष्टयं मनुते । यथा-ओष्ठसम्मेलनेन पानार्थद्योतने पा-शब्दमाश्रित्य पानार्थे पा-धातोः प्रयोगः। • एतन्मतमपि न विद्वद्धिः स्वीक्रियते । अनुकरणमूलकाः पा-गा-मांप्रभृतयः शब्दा अल्पा एव सन्ति । मुखेन हस्तादिसंपर्कमाश्रित्य ध्वनीनां शब्दानां चोत्पत्तिनं विचारसहा । जोहान्सनमहोदयः ध्वनीनाम् अर्थानां च सयुक्तिकसंबन्धस्थापने न प्रभवति । (८) प्रतीकवादः (Symbolic Theory )-एतन्मतानुसारं केचन शब्दा यं कमपि संबन्धमाश्रित्य 'प्रवृत्ताः, स्वल्पेन रूपेण बृहदर्थं बोतयन्ति । एते शब्दाः प्रायशो बालशब्दाः ( Nursery words ) सन्ति । यथा-माता, पिता, भ्राता, तात, चाचा-चाची-प्रभृतयः । एते प्रतीकरूपेण प्रयुज्यन्ते । एवमेव धातवोऽपि प्रवर्तन्ते यथा-पा, पिबामि, घ्रा, जिघ्रामिप्रभृतयः। ___एतन्मतमपि इंगितसिद्धान्तेन साम्यं धत्ते । एतन्मतमपि न भाषोत्पत्तिसाधने प्रभवति । स्थूलभावबोधका एते तातप्रभृतयः शब्दाः । सूक्ष्मभावबोधकानां शब्दानां कथमाविर्भाव इति नैतेन विशदीक्रियते । (९) समन्वयसिद्धान्तः–प्रसिद्धो भाषावित् हेनरी स्वीट ( Henry ११
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy