SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १६० संस्कृतनिबन्धशतकम् समीक्षणम् :-एतन्मतमपि न विचारसहम् । (क ) भाषाया अभावे कथं विचारविनिमयः ? ( ख ) विचारविनिमयस्य का भाषा ? (ग ) कः कथं च संकेतशब्द-रचनाम् अकरोत् ? भाषाया अभावेऽपि चेद् विचारविनिमयः संपाद्येत, तर्हि का भाषाया आवश्यकता ? (घ ) भामहेनोच्यते-'इयन्त ईदृशा वर्णा ईदृगाभिधायिनः । व्यवहाराय लोकस्य प्रागित्थं समयः कृतः । ( काव्यालंकार ६-१३)। भाषाया अभावे कथमेष समयः संभवति ? एवं मतमेतद् निःसारमेव । (३) रणनसिद्धान्तः ! Ding-dong Theory )-मतमिदं धातुसिद्धान्त ( Root Theory )-नाम्नापि निर्दिश्यते । सर्वप्रथमं मतमिदं प्लेटो ( Plato )-महोदयेन संकेतितम् । प्रो० हेस ( Heyse )-महोदयेन एतद् व्यवस्थितरूपेण प्रतिपादितम् । मैक्समूलर ( Max Muller )-महोदयेन समर्थितमेतन्मतम्, परं परस्तात् तेनैव निरर्थकमिदमिति परित्यक्तम् । रणनसिद्धान्तानुसारं शब्दार्थयोः रहस्यात्मको नैसर्गिकः संबन्धः । सर्वस्मिन् वस्तुनि स्वीयो विशिष्टो ध्वनिः । समीक्षणम--शब्दार्थयो.सर्गिकसंबन्धस्य कल्पना रहस्यात्मिकैव । विश्वस्य बहुभाषासु धातूनाम् अभावो विज्ञायते । तत्र धातुसिद्धान्तस्य का गतिर्भविष्यति ? घण्टानादे रणनवद् वस्तुदर्शने न कापि नित्यभावानुभूतिः । (४) मनोभावाभिव्यंजकतावाद : ( Interject.onal Theory,PoohPooh Theory )-एतन्मतानुसारं मानवो भावप्रधानः । सुख-दुःख-विस्मयघृणादिकाले भावावेशेन सहसैव किंचिद् उच्चारयति । ततो भाषोत्पत्तिः । यथा धिक्, आः। समीक्षणम्--एतन्मतमपि न समीचीनम् । ( क ) विभिन्नभाषासु मनोभावाभिव्यंजक-शब्दानाम् एकरूपत्वं न लक्ष्यते ? ( ख ) एतादृशानां शब्दानां संख्या न्यूनतमा। एते शब्दाश्च न भाषायाः प्रधानाङ्गभूताः । एतस्मिन् मते सुकरम् एतद् वक्तुं यद् उच्चारण-प्रक्रियाप्रारम्भार्थम् एष सिद्धान्तः किंचिदुपयोगी। (५) श्रम-ध्वनि-सिद्धान्त : ( Yo-he-ho Theory)-एष एव सिद्धान्तः श्रमापहारमूलकतावादोऽपि कथ्यते । न्वायर ( Noire )-महोदयः सिद्धान्तस्यास्य जनकः । श्रमकाले श्वासप्रश्वास-वेगात् स्वरतन्त्रीकम्पनेन तदनुरूप-ध्वन्युच्चारणं जायते । श्रमिकाः श्रमकाले श्रमपरिहारार्थ केषांचित् शब्दानां प्रयोगं कुर्वन्ति । यथा-हो-हो, हे, हूँ, छियो, हियो-प्रभृतयः शब्दाः । क्रियया सहजसंगतो ध्वनिस्तक्रियाबोधक इति तेषां मतम् । समीक्षा-मतमेतद् निकृष्टतमम् । नैते शब्दा भाषायां किंचिदपि स्थानं
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy