________________
४४. भाषोत्पत्तिविषयका वादाः भाषाविज्ञाने भाषोत्पत्तिविषयका विविधा वादाः प्रस्तूयन्ते । तत्र नव वादाः प्राधान्यं लभन्ते । तेषां समासतोऽत्र विवरणं प्रस्तूयते।
१. दिव्योत्पत्तिवादः ( Divine Theory )-भाषोत्पत्तिविषये प्राचीनतमोऽयं वादः । तदनुसारं यथैवेश्वरेण वेदज्ञानं प्रदत्तं तथैव वैदिकी भाषा संस्कृतभाषाऽपि ईश्वरप्रदत्तैव । दैवी-प्रेरणया मानवो भाषणे प्रवृत्तः । मानवजाति-जन्मना सहैव भाषाऽपि प्रादुरभूत् । अतएव ऋग्वेदे प्रोच्यतेदेवीं वाचमजनयन्त देवास्तां विश्वरूपाः पशवो वदन्ति ।
ऋग० ८-१००-११ अइउण्-इत्यादि-चतुर्दशप्रत्याहारसूत्राणां प्रादुर्भावः शिवस्य ढक्कानादेन मन्यते । 'नृत्तावसाने नटराजराजो ननाद ढक्कां नवपञ्चवारम्' इति ।
परमेतन्मतं न विदुषां रुचिकरम् । ( क ) यदि भाषा ईश्वरप्रदत्ता स्यात् तर्हि कथं लोके विविधभाषोत्पत्तिः स्यात् । जीव-जन्तु-भाषादिवत् तद्-विपर्ययो न लक्ष्येत । ( ख ) ईश्वरसृष्टा भाषा प्रागेव पूर्णविकाससंपन्ना स्यात्, तत्र विकासक्रमो न लक्ष्येत । किन्तु परस्ताच्च भाषासु विकासक्रमः संलक्ष्यते ।
समीक्षणम्-एतन्मतखण्डनम् आपाततः समीचीनमिव प्रतीयते । परन्तु विचारदृशा विविच्यते चेत् स्फुटमेतद् अवगम्यते यद् भाषा संस्कृतभाषा वा देवप्रदत्ता ईश्वरप्रदत्ता भवेन्न वा भवेत्, भाषोत्पत्तिः स्फूट-स्थान-प्रयत्नादिकरण-जन्या, इति तु निश्चप्रचम् । मानवः कथं भाषणे प्रवर्तते ? इति विचारे 'आत्मा बुद्धया समेत्यार्थान् मनो युङ्क्ते विवक्षया । मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् । मारुतस्तूरसि चरन् मन्द्रं जनयति स्वरम् ।' (पा० शिक्षा ६, ७) इत्यत्र न कस्यापि भाषाविदो विप्रतिपत्तिः। अज्ञानां समवायेन, हिक्कादिरवेण, मनोभावाभिव्यञ्जकादिशब्दैश्च भाषोत्पत्तिः सुतरां दुर्लभा । एतच्च परस्ताद् व्याख्यास्यते । ___दिव्योत्पत्तिवादे एतत् पारमार्थिकं तथ्यं यत् संसृतौ मानव एव परिष्कृतध्वनियन्त्रयुक्तः प्रतिभोपेतश्च । 'प्रतिभा' ईश्वरप्रदत्ता, ईश्वरस्वरूपा वा । प्रतिभयैव ज्ञानं विज्ञानं च प्रस्तूयते । प्रतिभैव भाषणशक्तिप्रदानेन समं भाषाप्रदानेऽपि समर्था ।
(२) संकेत-सिद्धान्तः ( Agreement Theory )-एष एव वादः सांकेतिक उत्पत्तिवादः, निर्णयसिद्धान्त इत्यप्युच्यते । एतन्मतानुसारं हस्तादिसंकेतानाम् अपूर्णत्वम् अपर्याप्तत्वं चोद्वीक्ष्य मानवैः संभूय प्रति-वस्त्वर्थ ध्वनिसंकेता निर्धारिताः । तथा च भाषाया उत्पत्तिः ।