________________
१५८
संस्कृतनिबन्धशतकम् अन्ये वैयाकरणाः -पूर्वोक्तातिरिक्तमपि केचन वैयाकरणा उल्लेखनीयाः सन्ति । रूपमाला ग्रन्थकृद् विमलसरस्वती, प्रक्रियाकौमुदीकारो रामचन्द्रः, वाक्यपदीयटीकाकारा वृषभदेव-पुण्यराजहेलाराजाः, स्फोटसिद्धि-कारो मण्डनमिश्रः, वैयाकरणभूषण-कार: कौण्डभट्टः, भट्टिकाव्य-कारो भट्टिः, अष्टाध्यायीभाष्य-कारो महर्षिर्दयानन्दसरस्वती।
पाणिनीयव्याकरणेतरशाखाः-पाणिनिभिन्न-शाखासु मुख्यत्वेन उल्लेख्याः शाखाः सन्ति-चान्द्रशाखा, जैनेन्द्रशाखा, शाकटायन-शाखा, हेमचन्द्रशाखा, कातन्त्रशाखा, सारस्वतशाखा, बोपदेवशाखा च । कच्चायन ( कात्यायन )-कृते कच्चायनव्याकरणे पालिभाषाव्याकरणम्, वररुचि-कृते प्राकृतप्रकाशे प्राकृतभाषाव्याकरणम्, हेमचन्द्र-कृते शब्दानुशासने ( सिद्धहैमे वा ) संस्कृत-प्राकृतअपभ्रंश-भाषाणां व्याकरणं प्राप्यते ।
___व्याकरणेतरशास्त्राणि-व्याकरणेतरग्रन्थेष्वपि भाषाशास्त्रीयम् अध्ययनम् उपलभ्यते । काव्यशास्त्रीयग्रन्थेषु शब्दशक्तेः ध्वनेश्च विवेचनं प्राप्यते । तत्रोल्लेख्या ग्रन्थाः सन्ति-भरतमुनि-कृतं नाट्यशास्त्रम्, दण्डि-कृतः काव्यादर्शः, आनन्दवर्धनकृतो ध्वन्यालोकः, अभिनवगुप्तकृतं ध्वन्यालोकलोचनम्, भोजराजकृतं सरस्वतीकण्ठाभरणम्, मम्मटकृतः काव्यप्रकाशः, विश्वनाथकृतः साहित्यदर्पणः, जगन्नाथकृतो रसगङ्गाधरश्च ।
दार्शनिकग्रन्थेष्वपि शब्दशक्तः स्फोटसिद्धान्तस्य अर्थविज्ञानस्य च विवेचनं समासाद्यते । तत्र प्राधान्येनोल्लेख्या ग्रन्थाः सन्ति-जगदीशभट्टकृता शब्दशक्तिप्रकाशिका, गदाधरभट्टकृती व्युत्पत्तिवाद-शक्तिवाद-ग्रन्थी, जयन्तभट्टकृता न्यायमञ्जरी, प्रभाचन्द्रसूरिकृतः प्रमेयकमलमार्तण्डः, कुमारिलभट्टकृतं मीमांसाश्लोकवार्तिकं च ।
आधुनिकसंस्कृतज्ञानां योगदानम्-यद्यपि भाषाविज्ञानस्य आधुनिकरूपेणाध्ययनं पाश्चात्त्यविद्वत्साहाय्यमूलकमेव, तथापि केषांचिद् भारतीयानामत्र विशेषतो योगदानं प्राप्यते । तत्र मुख्यत्वेन उल्लेख्या विद्वांसः सन्ति-डॉ. रामकृष्ण गोपाल भण्डारकर:-Wilson : Philological Lectures; डॉ० सिद्धेश्वर वर्मा Phonetic Observations of Ancient Indian Grammarians; डॉ० सुनीतिकुमार चटर्जी Origin and Development of Bengali Language; startITETET Elements of the Science of Language; डॉ० पी० डी० गुणे An Introduction to Comparative Philology; डॉ० मंगलदेवशास्त्री-तुलनात्मकभाषाविज्ञानम्, डॉ. बाबूराम सक्सेना-सामान्य-भाषाविज्ञानम्, डॉ. कपिलदेव द्विवेदी-अर्थ-विज्ञान और व्याकरणदर्शन, डॉ० भोलानाथ तिवारी-भाषाविज्ञानम। अन्येऽपि बहवो विद्वांसो विविधभाषाणां भाषाशास्त्रीयेऽध्ययने प्रवृत्ताः संलक्ष्यन्ते ।