________________
भारतीयानां भाषा विज्ञाने योगदानम्
ऐन्द्रं चान्द्र ं काशकृत्स्नं कौमारं शाकटायनम् । सारस्वतं चापिशलं शाकल्यं पाणिनीयकम् ॥ श्रीतत्त्वविधि एतेषु व्याकरणेषु ऐन्द्रं व्याकरणं प्रमुखम् आसीत् । तिब्बतीय- नुसारम् ऐन्द्र-व्याकरणं २५ सहस्रश्लोकपरिमितम् आसीत् । एतद् व्याकरणं पाणिनीयव्याकरणतः पञ्चविंशतिगुणम् अधिकं विज्ञायते । इन्द्र एव सर्वप्रथमं प्रकृति-प्रत्यय-विश्लेषणस्य प्रवर्तकः । तथा चोच्यते तैत्तिरीयसंहितायाम् -
-ग्रन्था
१५७
वाग्वै पराच्यव्याकृतावदत् । ते देवा इन्द्रमब्रुवन्, इमां नो वाचं व्याकुविति । तामिन्द्रो मध्यतोऽवक्रम्य व्याकरोत् । तैत्ति० ६-४-७
एलन महोदयस्य कथनमत्र स्वारस्यं भजते ।
Our phonetic categories and terminology owe more than is perhaps generally realized to the influence of Sanskrit phoneticians'.- Phonetics in Ancient India, W. S. Allen, p. 3
पाणिनिः पाणिनिरेव विश्वस्य सर्वोत्कृष्टो वैयाकरणः । तत्कृताष्टाध्याय्यां सूत्रसंख्या ३९९७ वर्तते । तत्र भाषाशास्त्र संबद्धाः सर्वेऽपि विषया: समासतः प्राप्यन्ते । ध्वनीनां स्थानप्रयत्नविवेचनं ध्वनिविज्ञानदृष्ट्याऽतिमहत्त्वपूर्णम् । तत्र पदजातं ' सुप्तिङन्तं पदम् ' ( अष्टा० १-४ -१४ ) सुबन्त - तिङन्तभेदेन द्विधा विभज्यते । एतच्च विभाजनं भाषाविज्ञानदृष्ट्याऽतीव वैज्ञानिकम् उपयोगि च । पाणिनिरेव सर्वप्रथमं वाक्यस्य महत्त्वं स्वीकुरुते ।
पाणिनि-परवर्तिनो वैयाकरणाः - पाणिनि - परवर्तिषु वैयाकरणेषु वार्तिककारः कात्यायनः, महाभाष्यकारः पतञ्जलिश्च विशेषत उल्लेख मर्हतः । पाणिनिकात्यायन- पतञ्जलयो 'मुनित्रयम्' इत्याख्यया वैयाकरणैः स्तूयन्ते । 'यथोत्तरं मुनीनां प्रामाण्यम्' इति च निर्देशो वैयाकरणानां वैज्ञानिकदृष्टित्वं समर्थयते ।
-
तत्परवर्तिषु वैयाकरणेषु काशिका - वृत्ति-कारी वामन जयादित्यो वाक्यपदीयकारो भर्तृहरिः, न्यासकारो जिनेन्द्रबुद्धिः, पदमञ्जरीकारो हरदत्तमिश्रः, महाभाष्यस्य प्रदीपटीकाकारः कैयटः, महाभाष्यस्य उद्योत टीकाकार: परिभाषेन्दुशेखर-मञ्जूषा- लघुशब्देन्दुशेखर- स्फोटवादादीनां प्रणेता नागेशभट्टः, सिद्धान्तकौमुदीकारः शब्दकौस्तुभ प्रौढमनोरमाग्रन्थकृद् भट्टोजिदीक्षितः, लघुसिद्धान्तकौमुदी-मध्यसिद्धान्तकौमुदीकारो वरदराजो विशेषतोऽत्र उल्लेखमर्हन्ति ।
सर्वेष्वेतेषु ग्रन्थेषु पतञ्जले महाभाष्यं भर्तृहरेर्वाक्यपदीयं च व्याकरणरत्नस्वरूपे स्तः । वाक्यपदीये व्याकरणदर्शनम्, पद-पदार्थ- वाक्य वाक्यार्थस्फोटसिद्धान्ता यथा विशदीक्रियन्ते, न तथान्यत्र । '
१. विवरणार्थं द्रष्टव्यम् - लेखककृतो ग्रन्थ : - 'अर्थविज्ञान और व्याकरणदर्शन' ।