________________
१५६
संस्कृतनिबन्धशतकम्
with letters, accents, quantity, pronunciation and euphonic rules.' "The treatises really representative of Vedic phonetics are the Pratishakhyas.' ( H.S.L. by Macdonell. pp. 223-224) ।
ब्राह्मणग्रन्था आरण्यकग्रन्थाश्व-ब्राह्मणग्रन्थेषु इन्द्र-वरुण-वृत्रादिशब्दानां निर्वचनं तदर्थविवेचनं च प्राप्यते। ऐतरेयब्राह्मणे वाक् सप्तधा विभज्यते । ( सप्तधा वै वागवदत्, ऐ० ब्रा० ७-७) सप्त विभक्तय इति भट्टभास्करः । गोपथब्राह्मणे ओंकारशब्दे धातु-प्रत्यय-उपसर्ग-निपात-विभक्त्यादिभाषाशास्त्रीयशब्दानां प्रयोगः सर्वप्रथमम् उपलभ्यते
ओंकारं पृच्छामः, को धातुः, कि प्रातिपादिकं, कि नामाख्यातं, कि लिङ्ग, किं वचनं, का विभक्तिः, कः प्रत्ययः, कः स्वर उपसर्गो निपातः, कि वै व्याकरणं..."कि स्थाननादानप्रदानानुकरणम् ( गोपथ० पू० १-२४)
Even the Brahm anas bear evidence of linguistic investigations for they mention various grammatical terms, such as 'letter' ( वर्ण ), 'Masculine' ( वृषन् ), number ( वचन), case-form ( विभक्ति) ( Macdonell-HSL. p. 225)
पाणिनिपूर्वजा वैयाकरणाः
(क) पाणिनिपूर्वजानां ८५ वैयाकरणानां नामानि उपलभ्यन्ते । तत्र पाणिनेरष्टाध्याय्यां १० वैयाकरणानां नामानि प्राप्यन्ते । तद् यथा-आपिशलिकाश्यप-गार्य-भारद्वाज-शाकटायन-स्फोटायन-प्रभृतयः ।
(ख ) प्राचीनग्रन्थेषु १५ वैयाकरणानां नामान्युल्लिख्यन्ते । तद्यथाशिव ( महेश्वर )-बृहस्पति-इन्द्र-काशकृत्स्न-व्याडि-प्रभृतयः ।।
(ग) १० प्रातिशाख्यग्रन्थाः। शौनककृतम् ऋकप्रातिशाख्यादिकम् ।
(घ ) सप्त अन्ये वैदिकव्याकरणग्रन्थाः । तद्यथा-ऋक्तन्त्र-सामतन्त्रअक्षरतन्त्र-प्रभृतयः।
(ङ) प्रातिशाख्यादिषु उद्धृताः ५९ वैयाकरणाः। तद्यथा-अग्निवेश्म-आगस्त्य आत्रेय-पौष्करसादि-प्रभृतयः ।
___ अष्टप्रभेदं नवप्रभेदं च व्याकरणम्--पुरा अष्टप्रभेदं व्याकरणं प्रचलितम् आसीत् । अतएव निरुक्तवृत्तौ दुर्गाचार्येण कथ्यते–व्याकरणम् अष्टप्रभेदम् ( दुर्ग, निरुक्तवृत्ति, पृ०७४ ) । तद्यथा
ब्राह्ममैशानमैन्द्रं च प्राजापत्यं बृहस्पतिम् ।
त्वाष्ट्रमापिशलं चेति पाणिनीयमथाष्टमम् ॥ वाल्मीकिरामायणे श्रीतत्त्वविधिग्रन्थे च व्याकरणं नवप्रभेदं श्रूयते ।
सोऽयं नवव्याकरणार्थवेत्ता ( वा० रा०, उत्तर० ३६-४७)