________________
४३. भारतीयानां भाषा-विज्ञाने योगदानम् ज्ञानविज्ञानसंश्लिष्टं विश्वभाषाविभूतिमत् । • ध्वनि-वाक्य-पद-ज्ञानं भाषाविज्ञानमिष्यते ॥ ( कपिलस्य )
भाषाविज्ञानम्-यद्यपि भाषाविज्ञानस्य भाषाशास्त्रस्य च वर्तमानं रूपम् आधुनिकमेव । विद्यारूपेण उपविद्यारूपेण वा नास्य विज्ञानस्य पुरा नामोल्लेखः प्राप्यते । तथापि भारतवर्षे वैदिककालाद् आरभ्य भाषा-विषयकं चिन्तनं विवेचनं विश्लेषणं चोपलभ्यते । एतदेवात्र समासतः प्रस्तूयते ।'
__ वेदाः-वेदा विश्ववाङ्मयस्य प्राचीनतमा निधिस्वरूपा ग्रन्थाः । तत्र भाषाविज्ञानसंबद्धा निर्वचनादयः प्राप्यन्ते । तद्यथा-वृत्रहन्-शब्दादीनां निर्वचनं व्युत्पत्तिश्च वेदेषु
वृत्रं हनति वृत्रहा० ( यजु० ३३-९६), अमावस्या मामा वसन्ति सुकृतः (अथर्व० ७-७९-२), अवीवरत वो हि कम् तस्माद् वार्नाम० (अ० ३-१३-३), उदानिषुर्महीरिति तस्मादुदकमुच्यते ( उदक = उद्+अन् ) ( अ० ३-१३-४ )
यजुर्वेदे सर्वप्रथमं विश्लेषणार्थे व्या+कृ धातोः प्रयोग उपलभ्यते ।
दृष्ट्वा रूपे व्याकरोत् सत्यानृते प्रजापतिः । यजु० १९-७७ 'चत्वारि शृङ्गा त्रयो अस्य पादा०' ( ऋग्० ४-५८-३ ) इत्यत्र शब्दस्य नामाख्यातादिचतुर्विधरूपेण विवेचनं दृश्यते । 'चत्वारि वाक् परिमिता पदानि०' ( ऋग्० १-१६४-४५ ) इत्यत्र वाचः परा-पश्यन्ती-मध्यमा-वैखरीति चतुर्भेदेन विवेचनं प्राप्यते । वेदेषु मन्त्राणां सस्वरस्य शुद्धपाठस्य च कियन्महत्त्वम् आसीद् इत्येतत् पतञ्जलिवचनेन ज्ञायते
मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह। स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ महा० आ० १
स्वरवैषम्यादेव 'इन्द्रशत्रुर्वर्धस्व' इति वृत्रपुरोहितानां प्रयोगो वृत्रनाशाय समजनि।
वेदाङ्गानि–वेदानां षडङ्गेषु शिक्षा व्याकरणं निरुक्तं छन्दश्चेति भाषासंबद्धानि वेदाङ्गानि । शिक्षाग्रन्था वस्तुतो ध्वनिविज्ञानस्यैव मूलरूपाः सन्ति । व्याकरणं वैदिकं व्याकरणं प्रातिशाख्यं च प्रकृतिप्रत्यय-विभाजनद्वारा भाषाशास्त्रीय विश्लेषणं द्योतयतः । निरुक्तं निर्वचनप्रधानत्वात् संज्ञाशब्दानां निरुक्ति व्याचष्टे । कथमिव संज्ञाशब्दानां प्रादुर्भाव इत्यपि निर्दिश्यते । छन्दःशास्त्रं पदानां लयात्मकं पाठं प्रस्तौति । एवं शिक्षा-व्याकरण-निरुक्त-छन्दःशास्त्राणि भाषाविज्ञानस्य प्राचीनतमं रूपं प्रस्तुवन्ति । विषयेऽस्मिन् मैकडानलकथनम् अवधेयम्
'The Taittiriya Aranyaka ( VII-I ) already mentions shiksha, or Phonetics, a subject which even then appears to have dealt १. विस्तृतविवेचनार्थ द्रष्टव्यम्-लेखककृत-'संस्कृतव्याकरणम्', पृष्ठ १०-४४ ।