SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १५४ संस्कृतनिबन्धशतकम् भासो विस्तारमनादृत्य समासं साधीयान् मनुते । यथा-'कमप्यर्थं चिरं ध्यात्वा.... 'अनुक्त्वैव वनं गताः।' (प्रतिमा० २-१७ )। तथा. भावान् चित्रयति यथा ते मूर्तवद् उपतिष्ठन्ते । यथा संध्यावर्णनम्-'खगा वासोपेताः सलिलमवगाढो मुनिजन:०' (स्वप्न० १-१६)। राज्याभिषेकवर्णनम्-छत्रं सव्यजनं सनन्दिपटहं भद्रासनं कल्पितं० (प्रतिमा० १-३ )। भासस्य व्यङग्यप्रयोगोऽसाधारणो मार्मिकश्च । कैकेयी वने व्याघ्री स्यात् । वने व्याघ्री च कैकेयी० ( प्रतिमा० २-८ ) । व्याकरणादिवैदग्ध्यमपि प्रदर्शयति यथावसरम्। यथा-स्वरपदपरिहीणां हव्यधारामिवाहम्० (प्रतिमा० ५-७) । विविधरसवर्णने, छन्दःप्रयोगे, अर्थान्तरन्यासप्रयोगे च प्रभूतं दाक्षिण्यम् उपलभ्यते तस्य । एवं नाटकपथप्रवर्तकेषु भासः सर्वाग्रणीरिति सुकरं वक्तुम् ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy