________________
भासनाटकचक्रम्
१५३ नाटकीयपात्राणामपि श्लेषाश्रयेण नामानि निर्दिश्यन्ते । यथा-प्रतिमानाटके नान्दोपाठे राम-सीता-लक्ष्मण-भरत-सुग्रीवादीनां श्लेषेण समावेशः।
सीताभवः पातु सुमन्त्रतुष्टः, सुग्रीवरामः सहलक्ष्मणश्च । यो रावणार्यप्रतिमश्च देव्या विभीषणात्मा भरतोऽनुसर्गम् ॥प्रतिमा० १-१
क्वचिद् नाटकीयपात्राणां संवादोऽपि पद्यबन्धेन भवति । श्लोकस्यैकः पाद एकेन प्रयुज्यते, अपरश्च परेण । भासः चरित्रचित्रणेऽतिपटुः, तस्य पात्रेषु स्वीयं वैशिष्टयम् आलक्ष्यते । तस्य नाटकेषु संवादाः संक्षिप्ताः प्रभावोत्पादकाश्च । सोऽनावश्यकं विस्तारं परिजहाति ।
भासस्य शैली-भासस्य शैल्यां माधुर्योजःप्रसादानां त्रयाणाम् अपि गुणानां समाहारः समीक्ष्यते । तस्य भाषा सरला, सुबोधा, सरसा, नैसर्गिकी, सप्रवाहा च। उपमा-रूपक-उत्प्रेक्षा-अर्थान्तरन्यासालंकाराणां प्रयोगो विशेषतोऽवाप्यते तस्य कृतिषु । अनुप्रासादिकं विशेषतः प्रियं तस्य । यथा-'हा वत्स राम जगतां नयनाभिराम' (प्रतिमा० २-४)।
रामायण-महाभारतादि-प्रभाविता तस्य शैली। अतएव तस्य भाषायां कृत्रिमतायाः क्लिष्टतायाः क्लिष्टकल्पनायाः समासाधिक्यस्य चाभावः संलक्ष्यते, सरलतायाः सरसतायाश्च समन्वयो निरीक्ष्यते । भासो मानवीय-मनोवृत्तीनां वर्णने आदर्शः । तस्य मनोवैज्ञानिक विवेचनम् अतीव मनोज्ञम् । यथा
दुःखं त्यक्तु बद्धमूलोऽनुरागः, स्मृत्वा स्मृत्वा याति दुःखं नवत्वम् । यात्रा त्वेषा यद् विमुच्येह बाष्पं, प्राप्तानृण्या याति बुद्धिःप्रसादम् ॥
स्वप्न० ४-६ भासो भारतीयभावानां कविः। तस्य नाटकेषु भारतीयभावानां समीचीनः समन्वयः प्राप्यते । यथा-पितृभक्तिः, पातिव्रत्यम्, भ्रातृप्रेम, क्षमाशीलता, त्यागादिकं च । पातिव्रत्यं वर्ण्यते यथा
अनुचरति शशाङ्क राहुदोषेऽपि तारा, पतति च वनवृक्षे याति भूमि लता च। त्यजति न च करेणुः पङ्कलग्नं गजेन्द्र
व्रजतु चरतु धर्म भर्तृनाथा हि नार्यः ॥ प्रतिमा० १-२५
भासस्य नाटकानां लोकप्रियतायाः कारणं वर्तते-सरसता, सरलता, रम्यता च । स रसानुकूलामेव भाषां प्रयुङ्क्ते । रसभावानुकूलं शैल्यां परिवर्तनमपि प्राप्यते । यथा शृङ्गारे प्रसादो माधुर्यं च, वीररसे ओजोगुणः। यथा जटायुषे क्रुद्धस्य रावणस्योक्ति:-'मद्भुजाकृष्टनिस्त्रिश-कृत्तपक्षक्षतच्युतै०' (प्रतिमा० ५-२२) १. विस्तृतविवेचनार्थं द्रष्टव्यम्-लेखकसंपादित-प्रतिमानाटकस्य भूमिका, पृ० १९-२६ ।
H