________________
१५२
संस्कृतनिबन्धशतकम्
चतुष्टयमिह । वितीर्णविपुलवित्तेन उदारचित्तेन चारुदत्तेन सह वसन्तसेनानाम-वाराङ्गनायाः प्रणयोपयमोऽत्र वर्णितः ।
१३ नाटकानां प्रणेता भासः-नाटकानामेतेषां प्रणेता भास एव, अन्योवेति विविधा प्रतिपत्तिविषयेऽस्मिन् । अन्तःसाक्ष्यादिना विज्ञायते यद् भास एवैतेषां नाटकानां प्रणेता । एक एवैतेषां प्रणेतेत्यपि अन्तःसाक्ष्यादिनाऽवगम्यते । तद्यथा-(१) सर्वाणि नाटकानि सूत्रधारप्रवेशाद् आरभन्ते । (२) नाटकभूमिकाथं प्रस्तावनाशब्दस्थाने 'स्थापना'-शब्दप्रयोगः। (३) नाटकेषु प्ररोचनाभावः, अर्थात् नाटककृतः परिचयाभावः स्थापनायाम् (४) नाटकपञ्चके स्वप्नवासवदत्तादौ मुद्रालंकारप्रयोगः, अर्थात् प्रथमे श्लोके प्रमुखनाटकीयपात्राणां नामोल्लेखः । (५) भरतवाक्यं प्रायशः सर्वत्र समानमेव-'राजसिंहः प्रशास्तु नः' । (६) भूमिका संक्षिप्ततमा । तत्र संवादारम्भेऽपि प्रायः साम्यमेव । (७) पात्रनामसाम्यमपि । यथा-काञ्चुकीयो बादरायणः । (८) अप्रचलितवृत्तानां प्रयोगो यथा-सुवदना-दण्डकादयः । (९) बहुषु नाटकेषु पताकास्थानकप्रयोगः । (१०) नाटकेषु सर्वेषु भाषासाम्यं रीतिसाम्यं च । (११) अपाणिनीयप्रयोगाः सर्वेषु नाटकेषु । (१२) अन्योन्यसंबद्धानि नाटकानि । यथा-स्वप्न० प्रतिज्ञायौगन्धरायणस्योत्तरभाग एव ।
- बाणो हर्षचरिते 'सूत्रधारकृतारम्भैः' इति भासनाटकवैशिष्टयम् आचष्टे । तच्च सर्वत्रावाप्यते। राजशेखरोऽभिधत्ते-'भासनाटकचक्रेऽपि छेकैः क्षिप्ते परीक्षितुम् । स्वप्नवासवदत्तस्य दाहकोऽभून्न पावकः ।' एतस्माद् भासकृतनाटकबहुत्वस्य स्वप्नवासवदत्तस्य च तत्कृतित्वेनावगतिर्भवति । भोजदेवो रामचन्द्रगुणचन्द्रौ च स्वप्नवासवदत्तं भासकृतिम् आमनन्ति । अतो भास एवैतेषां प्रणेतेत्यवगम्यते । भासस्य जनिकाल: ४५० ई० पूर्वादनन्तरं ३७० ई० पूर्वात् प्राक् च स्वीक्रियते ।
भासस्य नाट्यकला-साम्प्रतकालं यावद् उपलब्धं संस्कृतवाङमयं परीक्ष्यते चेद् भास एव नाटककृतामग्रणीरिति शक्यं वक्तुम् । नाटकानां बाहुल्येन, विषयवैविध्येन, अभिनयोपयोगित्वेन च तस्य नाटयनैपुण्यं नाटकनिर्मिती वैशारा चावधार्यते । नाटकेषु तस्य प्रमुखा विशेषताः सन्ति-भाषायां सरलता, अकृत्रिमा शैली, वर्णनेषु यथार्थता, चरित्रचित्रणे वैयक्तिकत्वम्, घटनासंयोजने सौष्ठवम्, कथाप्रसङ्गस्याविच्छिन्नश्च प्रवाहः । सर्वाण्येव नाटकानि अभिनयोपयोगीनीति तस्य महनीयताम् अभिवर्धयन्ति । तस्य नाटकेषु मौलिकता कल्पनावैचित्र्यं च विशेषत उपलभ्येते । स एव एकाङ्किनाटकानां जन्मदाता । अस्य नाटकपञ्चकम् एकाङ्कि। पताकास्थानकमपि मधुरं प्रयुक्त । . भासोऽनेकेषु नाटकेषु प्रथमश्लोके मुद्रालंकारं प्रयुक्ते । तत्र प्रमुख