________________
४२. भासनाटकचक्रम् (१. भासो हासः, २. सूत्रधारकृतारम्भैः "भासो देवकुलैरिव ।) ...
भासो हासः सरस्वत्या नाटकैरमृतोपमैः।। नाट्यवाङ्मयव्योमेन्दुः शास्त्रज्योतिर्विभास्वरः। ( कपिलस्य ) .
भासस्य नाट्यकृतित्वम्-महाकवेर्भासस्य कृतित्वेन त्रयोदश नाटकरत्नानि समुपलभ्यन्ते । 'भासनाटकचक्रेऽपि छेकैः क्षिप्ते परीक्षितुम् । स्वप्नवासवदत्तस्य दाहकोऽभून्न पावकः ।' इति राजशेखरभणितिम् आश्रित्य 'भासनाटकचक्रम् इति तत्कृतनाटकानां नाम व्यवह्रियते । नाटकत्रयोदशस्य परिचयः समासतोऽत्र प्रस्तूयते । (१) प्रतिज्ञायौगन्धरायणम्-अङ्कचतुष्टयमत्र । उदयनस्य वासवदत्तया सह प्रणयः परिणयश्चेह वय॒ते । (२) स्वप्नवासवदत्तम्-अङ्कषट्कमत्र । वासवदत्ताऽग्निदाहेन दग्धेति प्रवादं प्रचार्य यौगन्धरायणप्रयत्नात् पद्मावत्या सहोदयनस्योपयमोऽपहृतराज्यावाप्तिश्च वर्ण्यते । ( ३) ऊरुभङ्गम्नाटकमेतद् एकाङ्कि। पाञ्चाली-परिभव-प्रतिक्रियाएं भीमेन गदायुद्धे दुर्योधनोरुभञ्जनं वस्तु वर्ण्यते । ( ४ ) दूतवाक्यम्-एकाङ्कि नाटकम् । महाभारताहवात् प्राक् पाण्डवाथं दुर्योधनसंसदि श्रीकृष्णस्य दूतत्वेन गमनं प्रयत्नवैफल्यं चात्र वर्ण्यते । (५) पञ्चरात्रम्-अङ्कत्रयमत्र । यज्ञान्ते द्रोणो दक्षिणास्वरूपं पाण्डवेभ्यो राज्याधं ययाचे दुर्योधनम् । पञ्चरात्राभ्यन्तरे पाण्डवानाम् उदन्त उपलभ्यते चेद् राज्याधं दास्यते मयेति दुर्योधनोक्तिः । पञ्चरात्राभ्यन्तरे पाण्डवानां प्राप्तिः, दुर्योधनकृतराज्यार्धप्रदानं च। (६) बालचरितम्-अङ्कपञ्चकमत्र । बालस्य श्रीकृष्णस्य जन्मन आरभ्य कंसवधान्तं चरितमिह वर्ण्यते । (७) दूतघटोत्कचम्-एकाङ्कि नाटकमदः। अभिमन्युनिधनान्तरं श्रीकृष्णप्रेरणया दौत्यमाश्रित्य घटोत्कचस्य धृतराष्ट्रान्तिकं गमनम् । दुर्योधन-कृतस्तस्यावमानः । दुर्योधनोक्तिश्च–'प्रतिवचो दास्यामि ते सायकैः' इति । (८) कर्णभारम्-नाटकमिदम् एकाङ्कि। ब्राह्मणवेषधारिणे शक्राय कर्णस्य कवचकुण्डलार्पणम् । (९) मध्यमव्यायोगः-नाटकमिदम् एकाङ्कि। मध्यमपाण्डवो भीमो मध्यमनामानं ब्राह्मणसूनुम् एकं घटोत्कचात् त्रायते । अपत्यदर्शनेन भीमस्यानन्दावाप्तिः पत्न्या हिडिम्बया च समागमः । (१०) प्रतिमानाटकम्-अङ्कसप्तकमिह। रामवनवासाद् आरभ्य रावणवधान्ता कथाऽत्र वर्णिता । दशरथप्रतिमां प्रेक्ष्य भरतः पितुर्निधनम् अवगच्छति । (११) अभिषेकनाटकम्-अङ्कषट्कमत्र। किष्किन्धाकाण्डाद् आरभ्य युद्धकाण्डान्ता रामकथाऽत्र वर्णिता। रावणवधानन्तरं रामस्य राज्येऽभिषेकः। (१२) अविमारकम्-अङ्कषट्कमत्र। राजकुमारस्य अविमारकस्य राज्ञः कुन्तिभोजस्य दुहित्रा कुरङ्ग्या सह प्रणयपरिणयोऽत्र वर्णितः। (१३) चारुदत्तम्-अङ्क