SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ संस्कृत निबन्धशतकम् महात्मनो गान्धेर्मतम् — परिवार नियोजन - विषये महात्मनो गान्धेर्मतं न तथा सर्वकारमतानुकूलम् । स सन्तति-निरोधार्थं ब्रह्मचर्यव्रतपालनं श्रेयस्करत्वेनामन्यत । ब्रह्मचर्यंनियमपालनेन स्वास्थ्यरक्षा, आचाररक्षा, जीवनरक्षा, सन्ततिनिरोधश्च । परं खेदावहमेतद् यत् शासनेन महात्मनो वचनं तिरस्कृत्य पाश्चात्त्य विधिरुररीकृतः । २२२ परिवार नियोजनस्य दोषाः - परिवारनियोजने सन्ततिनिरोधे च यः कृत्रिमो विधिराश्रीयते, स समाजे चारित्र्यावनतिं वर्धयति । युवका युवतयश्च कृत्रिमविधि-परिज्ञानेन पाश्चात्त्य देशादिवत् चरित्रहानि न दोषकरीं गणयन्ति । सत्यमेतद् यत् साम्प्रतं युवक-युवत्यादिषु न तथा संयमो दमो नियन्त्रणं च, अतस्ते सन्ततिनिरोधार्थं कृत्रिमविधिम् आश्रयन्ते । तदुदर्कत्वेन च विविधरोगग्रस्ताः, शारीरिक-मानसिक बलविरहिताः, शैशवे यौवने च निष्प्रभा हतकान्तयश्चावलोक्यन्ते । यावान् प्रचारः प्रसारश्च सर्वकारेण कृत्रिमनिरोधोपायादी क्रियते, तावानेव सदाग्रहश्चेत् संयमे ब्रह्मचर्य पालने च स्यात्, तदा कृत्रिम - निरोधजन्य - दोषाणाम् अपमार्जनं संभाव्यते । एवं परिवारनियोजनं सन्ततिनिरोधो वा सिद्धान्तरूपेण ग्राह्यम् । व्यवहाररूपेण च संयमपालनमेव सन्ततिनिग्रहस्य सर्वोत्कृष्ट उपायः । एष उपायः प्रयुक्तो व्यवहृतश्चेत् तदा सन्ततिनिरोधेन सममेव लोकजीवनं लोककर्म लोकव्यवहृतिश्च सदा श्रेयसे भविष्यन्ति ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy