________________
६५. पञ्चवर्षीय-योजनाः ( Five-year Plans ) प्रस्तावना-१५ अगस्त, १९४७ ईसवीये भारतस्य स्वातन्त्र्यलाभे देशस्य दयनीयां स्थितिम् उद्धतु बद्धकौर्नेतृभिः समुन्नतराष्ट्रकोटौ भारतं संस्थापयितुं रूसदेशविकासं पर्यालोच्य तदनुकृतिमूलेयं पञ्चवर्षीय-योजना प्रारब्धा । भारतस्य सर्वाङ्गीणसमुन्नतिर्येन विधिना यया पद्धत्या च सिध्येत् तत् सर्वमेवात्र पर्यालोचितम् ।
प्रथम-पञ्चवर्षीया योजना-योजनायोगः मार्च १९५० ईसवीये भारतीयसंविधानानुसारम् आयोजितोऽभूत् । तेनैव च प्रारूपं प्रस्तुतम् । प्रथमपञ्चवर्षीययोजनाकाल: १९५० ईसवीयतः ३१ मार्च, १९५६ ई० यावदासीत् । परन्तु योजनायोगः दिसम्बर, १९५२ ईसवीये योजनाम् अन्तिमरूपेण प्रस्तोतुं प्राभवत् ।
प्रथम-पञ्चवर्षीय योजनाया लक्ष्यम् आसीत्-खाद्यसमस्यासमाधानार्थ कृषेरुन्नतो बलाधानम्, तदर्थं क्षेत्रादिसेचनस्य समुचितव्यवस्थासंपादनम्, कृषेरुन्नत्यर्थं विद्युदुत्पादनवृद्धिः, सेचनकार्यसौकर्याय नदीषु बन्ध-स्थापनम्, कुल्यानिःसारणम्, कूप-तडाग-नलकूपादीनां निर्माणम्, कृषियन्त्राणां साहाय्येन अनुर्वराभूमेः उर्वरीकरणम्, कृषिकर्मयोग्यकरणं च ।
सेचन-साधनवृद्धया जलाभावाद् अकृष्टः कृषिकर्मणि अनुपयुक्तश्च विशालो भूमिभागः कृषिकर्मयोग्यः संवृत्तः । कृषिकर्मणि आधुनिक-कृषि-यन्त्राणाम् उपयोगः तत्साहाय्यं चावर्धत । एतदतिरिक्तं सामुदायिकयोजनानाम् उपक्रमाद् राष्ट्रव्यापिनी कृषिविस्तारसेवा संस्थापिता। सहकारितान्दोलनमपि पुनः गौरवास्पदं प्राप्नोत् । येन प्रकारेण ग्रामीणजनताया आर्थिको विकासः स्यात्, तथा प्रयत्न आरब्धः । एतदथं विद्युतः सुविधा प्रदत्ता । लघद्योगानां कुटीरोद्योगानां च प्रोत्साहनाथं सर्वकारेण आर्थिक साहाय्यमपि वितीर्णम् ।
एतद् योजनान्तर्गतं भाखड़ा-नांगल-बन्धः, दामोदरघाटी-योजना, कोसीविकास-योजना, हीराकुण्ड-बन्धः, दाक्षिणात्य-प्रदेशस्थ-नदीषु बन्धकार्याणि संपन्नानि । रेलइन्जिन-कम्पार्टमेण्ट-प्रभृतीनां निर्माणार्थ चितरञ्जन-लोकोमोटिववर्क्स-आख्यस्य यन्त्रागारस्य संस्थापनम् । बंगलोरस्थाने वायुयानानां विशाखापत्तने च जलपोतानां निर्माणार्थं निर्माणशालाः संस्थापिताः ।
__ एतद्योजनान्तर्गतं २३५६ कोटि-रूप्यक-परिमितो व्ययः प्रस्तावितोभूत् । वास्तविको व्ययस्तु ३३६० कोटि-परिमितोऽभूत् । प्रथमपञ्चवर्षीययोजनाफलस्वरूपं कृषेरुन्नतो १८ प्रतिशतं राष्टिये आये वृद्धिरजायत ।
द्वितीय-पञ्चवर्षीय-योजना-द्वितीयपञ्चवर्षीय-योजनायाः काल: १९५६ ईसवीयत आरभ्य १९६१ ईसवीयं यावद् अभूत् । द्वितीययोजनाया लक्ष्यम्