________________
२२४
संस्कृत निबन्धशतकम्
आसीत् - ( क ) राष्ट्रिये आये २५ प्रतिशतं वृद्धिः स्यात् । ( ख ) आधारभूतानां विशालानां चोद्योगानां विकासे बलाधानेन तीव्रगत्या देशस्य औद्योगिकीकरणं स्यात् । ( ग ) अवृत्ति समस्या समाधानं वृत्ति-सुविधा-संपादनं च । (घ ) वैयक्तिक आये संपत्तौ च वैषम्यं निराकृत्य देशे समाजवादिन्या व्यवस्थायाः स्थापनम् ।
फल - स्वरूपम् उद्योगेषु प्राधान्यम्, औद्योगिकीकरणं च योजनाया मुख्यं लक्ष्यं संजातम् । समाजवादिन्या व्यवस्थायाः क्रियान्वयत्वम्, अस्यां योजनायाम् अभूत् । एतद्योजनाकाले विद्युत उत्पादने, कृष्युत्पादने, रासायनिक-खादोत्पादने, इस्पातोत्पादने, सीमेन्ट- कोयला - वस्त्र - चीनी - आल्मुनियम - प्रभृतीनाम् उद्योगे आशातीतं साफल्यम् अभूत् । ७०० लघुद्योगानां स्थापना संजाता। साइकिल मोटर साइकिल-स्कूटर - रेडियो -विद्युद्व्यजन (Fans ) - विद्युबल्ब घटिका-प्रभृतीनां निर्माण प्रभूतं साफल्यम् अभूत् । संचार परिवहनविभागान्तर्गतं विद्युतो विस्तारः, रेलवे लाइन - विस्तारः ६ लक्ष - किलोमीटरपरिमितम् अभूत् । नांगल नवेली - राउरकेला-स्थानेषु खादोत्पादनार्थं यन्त्रशालानां निर्माणम् अभवत् । अस्यां योजनायां निर्धारितो व्ययः ४८,०० कोटिरूप्यकमित आसीत् परं वास्तविको व्ययः ६५७० कोटिरूप्यकमितोऽभूत् । राष्ट्रिये आये ४२ प्रतिशतं वृद्धिरभूत् । कृष्युत्पादनेऽपि वृद्धिरभूत् । ६५ लक्ष - कर्मिणां वृत्तिप्राप्तिव्यवस्था च संजाता । परं व्ययपर्यालोचनेनावगम्यते यन्नाऽऽशानुरूपं योजनायाः साफल्यम् अभूत् ।
तृतीय- पञ्चवर्षीय योजना - तृतीयपञ्चवर्षीय योजनाया मुख्योद्देश्यानि समासत आसन् — ( क ) राष्ट्रिये आये ५ प्रतिशत वृद्धिः । तथा च मूलधनविनियोगः स्याद् यथा भविष्यति कालेऽपि वृद्धर्जायेते । ( ख ) खाद्यान्नविषये देशस्य स्वावलम्बित्वम् । (ग) उद्योगानां निर्यातानां चावश्यकता-पूर्त्यर्थम् उत्पादनवृद्धिः । ( घ ) जनशक्तेः पूर्णोपयोगेन वृत्ति- समस्या- निराकरणम् । (ङ) औद्योगिकविकासे तीव्रत्वाधानम्, यन्त्रनिर्माणे आत्मनिर्भरत्वम्, इस्पात रसायनइन्धन विद्युद् यन्त्रादिनिर्मातॄणां मूलभूतोद्योगानां विकासनेन औद्योगीकरणक्षमता-संपादनम् । ( च ) आयस्य संपत्तेश्च वैषम्यनिवारणम्, सर्वेभ्योऽपि समुन्नत्यर्थं समानावसरप्रदानम्, आर्थिकक्षमतायाश्च साम्येन वितरणम् ।
एतद्योजनान्तर्गतं प्रमुख कार्याण्यासन्-- कृषिविकास: सामुदायिककार्यविकासः, सेचनसुविधाः, विद्युदुत्पादन वृद्धिः, कुटोरोद्योग-लघूद्योग-बृहदुद्योगवृद्धिश्च, यातायात संचार व्यवस्था वृद्धिः, समाजसेवोन्नयनम् । योजनायाः कालः १९६१ ई० आरभ्य १९६६ ई० यावदासोत् । योजनाया एतस्या एकखर्वपरिमितो व्ययो निर्धारितोऽभूत् । अस्यां योजनायाम् उद्योगेषु खनिजोत्पादने च बलम् आधीयत ।