SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ पञ्चवर्षीय योजनाः २२५ तृतीयपश्चवर्षीययोजनायामुपलब्धिः सामान्यैव संजाता। सर्वेषु क्षेत्रेषु लक्ष्याद् न्यूनैवोपलब्धिर्जाता। यतो हि कालेऽस्मिन् १९६३ ईसवीये चीनदेशाक्रमणेन, १९६५ ईसवीये पाकदेशाक्रमणेन च योजनायां गत्यवरोधोऽभूत् । राष्ट्रिये आये २० प्रतिशतं वृद्धिः, खाद्यान्नोत्पादने 3 उपलब्धिः, औद्योगिकक्षेत्रे च लक्ष्यस्य सर्वथापूर्तिः । वृत्तिरहितानां लोकानां संख्या १२० लक्षपरिमिताऽवर्धत । वितरणव्यवस्थोन्नयने, असमानतानिराकरणे च लक्ष्यम् अपूर्तिमेवाभजत । सहकारि-समितीनां व्यवस्थादोषाद् भ्रष्टाचारस्य च सर्वत्र व्याप्तेः सहकारितान्दोलनमपि स्वलक्ष्यसिद्धी असाफल्यमेवाभजत । कृषिविकासकार्य, भूसंरक्षणे, खादोत्पादने, सेचनसुविधाप्रदाने च निर्धारित लक्ष्यम् अपूर्णमेवास्थात् । व्ययानुरूपं लाभप्राप्ति भूत् । परिणामस्वरूपं मुद्रास्फीतिः, वस्तुमहार्घत्वं चाभूताम् । अवृत्तिसमस्याऽपि जटिलतरताम् आपन्ना । चतुर्थ-पञ्चवर्षीय-योजना--एषा योजना १३ अप्रैल, १९६९ ईसवीये प्रारब्धा । एतदर्थम् २३७५० कोटि-परिमितो व्ययो निर्धारितोऽभूत् । एतस्या लक्ष्यम् आसीत्-(क) उत्पादने आत्मनिर्भरत्वम्, निर्यातस्यं प्राथमिकत्वं च, ( ख ) वस्तुमूल्य-स्थिरीकरणम्, (ग) कृष्युत्पादने विकासाद् ग्रामीणानाम् आये वृद्धिः, (घ) जनोपयोगिवस्तूनां पूर्ती वृद्धिः, (ङ) इस्पात-रसायनविधुच्छक्ति-यातायात-साधनेषु वृद्धिः, ( च ) परिवार नियोजन-द्वारा जनसंख्यानिरोधः, (छ) अवृत्तिसमस्या-निराकरणम् । चतुर्थपञ्चवर्षीययोजनाया वैशिष्ट्यं समासतो वक्तुं शक्यते यदत्र कृषेमहत्त्वं प्रतिपाद्यते, आर्थिकविषमतानिराकरणे बलम् आधीयते, सहकारिता-शिक्षा-जनस्वास्थ्यादिकार्यक्रमेषु वरीयस्त्वं च निर्दिश्यते।। एतद्योजनाकाले योजनाकृतां शिरःसु विषमा विपत्तिः समायाता। व्ययार्थं कूतो धनोपलब्धिः ? अमेरिकातः साहाय्यं निरुद्धमेव । भारतीयजनतासमीपे धनाभावात् किंकर्तव्यविमूढत्वं प्रावर्तत । अस्माकं सर्वकारेण यथा योजनासु व्ययो व्यधायि, न तथा लक्ष्यावाप्तिाभावाप्तिश्च संजाते। भारते प्रवर्तितास्वपि चतुर्योजनासु सर्वतो विषमा खाद्यान्नसमस्या, कठिना वृत्तिसमस्या, असाध्या अर्थव्यवस्था, विद्युतोऽभावः, महार्घता, जीवनोपयोगिवस्तूनाम् अभावः प्रतिपलं प्रतिपदं प्रतिदिनं च दावाग्निवत् समेधते । सर्वमेतत् भारतीय-शासकानाम्, भारतीयार्थशास्त्रिणाम्, नेतृणां च वैदुष्यं, वैदग्ध्यं, कौशलं, व्युत्पत्ति, योजना-निष्पादनदक्षत्वं, तक्रियान्वयनक्षमत्वं च द्योतयति घोषयति च।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy