SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ६६. जनतन्त्रवादः ( Democracy ) ( १. लोकतन्त्रशासनपद्धतिः, २. प्रजातन्त्र-शासनविधिः, ३. सर्वेषां राजतन्त्राणां लोकतन्त्र विशिष्यते । ) जनतन्त्रशासनस्य प्रारम्भः-वैदिकं वाङ्मयम् अनुशील्यते चेत् तहि दृग्गोचरताम् आयाति यद् राजतन्त्रशासनेन सममेव लोकतन्त्रशासनमपि वैदिककाले प्राचरत् । ऋग्वेदे राज्ञो निर्वाचनस्य वर्णनं प्राप्यते । अथर्ववेदेऽपि राज्ञो निर्वाचनस्य, जनतायाः समर्थनस्यावश्यकतायाश्च वर्णनम् उपलभ्यते । विशो न राजानं वृणानाः। ऋग्वेद १०-१२४-८ । त्वां विशो वणतां राज्याय । अथर्व० ३-४-२। विशस्त्वा सर्वा वाञ्छन्तु० । अथर्व०६-८७-१। यजुर्वेदे स्फुटमेव महतो जनराज्यस्य द्विवारम् उल्लेखो विधीयते । महते जानराज्याय० । यजु०९-४०, १०-१८ । राज्ञः परामर्शदातृरूपेण सभा-समिति-नाम्न्योः परिषदोवर्णनमपि प्राप्यते। सभा च मां समितिश्चावतां प्रजापतेदुहितरौ संविदाने। अथर्व०७-१२-१ यजुर्वेदे राष्ट्रपतेः कर्तव्यरूपेण जनतन्त्र-संरक्षम्, विश्वहित-संरक्षणम्, स्वराज्य-संरक्षणं च निर्दिश्यते । जनभृत स्थ राष्ट्रदा राष्ट्र मे दत्त । विश्वभृत स्थ राष्ट्रदा राष्ट्र मे दत्त। स्वराज स्थ राष्ट्रदा राष्ट्रममुष्मै दत्त । यजु० १०-४। ___ एवं सुकरमेतद् अभिधातुं यद् वैदिककालादेव जनतन्त्रशासनविधिः प्रवर्तते । साम्प्रतं विंशतितमशताब्द्यां जनतन्त्रस्योदय आधुनिकरूपेण संलक्ष्यते । एतदाश्रित्यैव जर्मनी-फ्रांस-रूसादिदेशेषु जनतन्त्रं प्रचरति । किं नाम जनतन्त्रम् ?-जनानां लोकानां प्रजानां वा तन्त्रं शासनं जनतन्त्रम् इत्यभिधीयते । जनतन्त्रस्य बह व्यः परिभाषा उपलभ्यन्ते । तत्र अमेरिकादेशराष्ट्रपतेः अब्राहम लिंकन-महोदयकृता परिभाषा प्रथिततमा हृद्या च । जनतन्त्रं जनतायाः शासनम्, जनताद्वारा संचालितम्, जनहितार्थं च भवति । It is a government of the people, by the people and for the people. -ABRAHAM LINCON. सीले-महोदयो लक्षयति यत् तत् प्रजातन्त्रं जनतन्त्रं वा कथ्यते यत्र सर्वस्यापि लोकस्य शासने भागो भवति । डायसी-महोदयस्तु लक्षयति यत् तत् प्रजातन्त्रं यत्र शासनसूत्रं राष्ट्रस्य बृहत्तर-लोकहस्ते निपतति ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy