________________
Democracy is a
a share.
जनतन्त्रवादः
government, in which
२२७
everyone has -Seeley.
Democracy is a form of government, in which the governing body is comparatively a large fraction of the entire nation. -Dicey.
ले कतन्त्रस्य वैशिष्ट्यम् — लोकतन्त्रशासनस्य सूत्रं लोकायत्तं भवति । लोकतन्त्रे जननिर्वाचिताः शासनसूत्रं गृह्णन्ति । यद्येभिर्लोकहितं न संपाद्यते, जनमनोऽनुकूलं च न कार्यं निष्पाद्यते, तर्हि ते आगामिनि निर्वाचने पदच्युताः क्रियन्ते । एवं जनविश्वासम् अवाप्ता एव जनप्रतिनिधयस्तत्र शासनं विदधति । जनप्रतिनिधिशासनत्वाद् एतद् उत्तरदायित्वपूर्णं शासनं भवति । प्रतिमानवं भेदाभावात् समानत्वम् अत्रोररीक्रियते । अत्र जनो न साधनमात्रम्, अपि तु साध्यमेव । जनहितार्थमेतत् शासनम् । लोकहस्तेषु प्रभुत्व- शक्तेः सत्तया प्रजायाः प्राधान्यम् । अत्र नागरिकेभ्यः सामाजिकी, राजनीतिकी आर्थिकी च स्वतन्त्रता भवति । अत्र मानव बन्धुत्वं जनसहयोगभावना चानिवार्यत्वेन निर्दिश्यते । अस्य तन्त्रस्य वयस्क- मतदानाधिकारः प्रमुखं वैशिष्ट्यम् । मतदानाधिकारलाभेन लोकेषु उत्तरदायित्वभावना जागति । अत्र विधानसभादिभ्यो निर्वाचनमपि प्रामुख्यं भजते । जननिर्वाचिता लोका विधानसभायाः संसदश्च प्रतितिधित्वम् अलं कुर्वन्ति ।
जाति-धर्म-वर्गादि-भेदाभावात् सर्वधर्म-जात्यादि - हित संरक्षणं जायते । निर्वाचनपद्धत्या अनिवार्यत्वेन राजनीतिकदलानाम् उद्भवो जायते । अत्र लोकमतस्य जनमतस्य वा प्राधान्यं भवति । जनमतमेव शासन-परिवर्तनं विधातुं प्रभवति । तत्र स्थानीयं स्वराज्यमपि स्थापयते । यथा — ग्राम-पंचायतजिला - परिषद् — नगरपालिकादयः स्थानीय-स्वराज्य संस्था एव सन्ति । स्थानीयं स्वराज्यं प्रजातन्त्रशासनपद्धतेर्मूलम् । सर्वेषां लोकानां शिक्षणं विद्योपार्जनं चात्र अनिवार्यत्वेनापद्यते । आर्थिकी समानता चापि प्रजातन्त्रस्याधाररूपेण गण्यते ।
प्रजातन्त्रपद्धतेर्लाभा वैशिष्ट्यं च - अत्र राज्यापेक्षया व्यक्तेर्महत्त्वम्, वैयक्तिक विकासस्य च पूर्णोऽधिकारो लभ्यते । राज्यम् अत्र साधनम् जनोऽत्र साध्यश्च । अतो व्यक्तेः स्वातन्त्र्यम् । मतदानेऽपि स्वातन्त्र्यलाभात् प्रतिनिधिनिर्वाचनेऽप्रतिहतं स्वातन्त्र्यम् । भाषणे, लेखने, विचाराभिव्यक्तौ चात्र पूर्ण स्वातन्त्र्यम् । ईदृशं स्वातन्त्र्यं लोकहितघातकं न भवितुमहति । विविधाः क्रान्तयो जनशोषणेन अत्याचारादिभिर्वा प्रादुर्भूताः । अत्र स्वाभिमत - प्रकाशनस्वातन्त्र्यात् न रक्तमयी क्रान्तिः सम्भाव्यते ।