SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ २२८ संस्कृतनिबन्धशतकम् अत्र शिक्षा-विषये सार्वजनीन-सुविधया जनानां शिक्षितत्वम्, सार्वजनिककार्येष्वभिरुचिः, बौद्धिकविकासः, स्वावलम्बनं च प्राप्यते । अत्र समानाधिकारत्वात् कस्यचिद् वर्गस्य शोषणं न संभवति । प्रतिनिधीनां निर्वाचनात् कुशलशासनं भवति । निर्वाचने जनमतस्य प्राधान्याद् निर्वाचित प्रतिनिधीनां नैतिकं महत्त्वम् आशास्यते। लोकायत्तत्वादस्य शासनस्य लोकेषु देशप्रेमभावना जागति । लोका एव शासकाः, इत्येवं-रूपेण लोकेषु स्वाभिमानोदयः । एवमस्य तन्त्रस्य वैज्ञानिकमपि महत्त्वम् । साम्प्रतिक्यां स्थिती जनतन्त्रमेव सर्वोत्कृष्टत्वेन गण्यते । जनतन्त्रशासनस्य दोषाः-जनतन्त्रशासनस्य केचन दोषा अपि संलक्ष्यन्ते । सिद्धान्तरूपेण जनतन्त्रवादः सर्वोत्तमः । परं व्यवहारे न तथा सुखावहः, सिद्धान्त-व्यवहारयोः सर्वत्र वैषम्यावेक्षणात् । व्यवहारे परीक्षिता एते गुणा दोषरूपेण परिणमन्ते । वर्तमानं जनतन्त्रं क्षुधायै, दुःखावाप्तये, कष्टसहनाथं च स्वातन्त्र्यम् । समाजे मूर्खाणां बाहुल्याद् मूर्ख-राज्यमेतद् व्यादिश्यते । प्लेटो ( Plato )-महोदयो लोकतन्त्रशासनं मूर्खशासनं मनुते । तमेव समर्थयता कार्लाइल-महोदयेनोच्यते There are nine fools in the world for one wise man. Democracy, therefore, means the rule of fools. -Carlyle, लोके सात्त्विका गुणिनश्च न तथा लोकप्रियाः, यथा धूर्ताः प्रवञ्चकाश्च । ते धनादिना, जातिवादादिना, सम्प्रदायवादेन च लोकान् प्रतार्य प्रतिनिधित्वं भजन्ते । एवमेतत् तन्त्रम् अयोग्यानां वञ्चकानां च शासनं संजायते । धनादिना मतानां क्रयणात् जन-स्वातन्त्र्यस्य विनाशायैतद् भवति । मतदाने बहुसंख्यकानां प्राधान्याद् अल्पमतस्योपेक्षा भवति । भाषणादि-स्वातन्त्र्याद् धूर्ता वञ्चकाश्च स्वार्थसाधनाय राजनीतिकीम् अशान्ति जनयन्ति । जनतन्त्र विदुषां समादराभावात् कलानां साहित्यस्य विज्ञानस्य च विकासोऽवरुध्यते । राज्यशासने भ्रष्टाचारवतां पिशुनानां खलानां च प्राधान्याद् लोकानां नैतिक पतनमपि संजायते । स्वार्थसाधनाय विविधानां दलानां समुद्भवो भवति । तथा च दलगत-राजनीति-समाश्रयणाद् नैतिकं वातावरण प्रदुष्यति । निर्वाचनेषु मतलाभाय धनस्य बहुधा दुरुपयोगो दृश्यते । मतमेतद् न विकासवादेनापि आनुकूल्यं धत्ते । अत्र बुद्धेः कर्तृत्वम् अपास्य, अङ्गानामेव कर्तृत्वम् अनुशिष्यते । अत्र विदुषां नेतृत्वाभावान्न समन्वयात्मिका समुन्नतिः संभाव्यते । उपसंहारः-सिद्धान्तदृष्टया जनतन्त्रं समीचीनतमम् । व्यवहारदृशा ये दोषाः संलक्ष्यन्ते, तेषां निराकरणमपि अभीष्टम् । तदर्थ जनतायाः शिक्षितत्वम्
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy