SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ जनतन्त्रवादः २२९ अनिवार्यम् । स्वाधिकार कर्तव्यं च प्रति जनताया जागरूकताऽभीष्यते । लोकेषु तादृशी जागरूकता स्याद् यथा वश्वका धूर्ता आचारहीनाश्च न प्रतिनिधित्वं प्राप्नुयुः । शासनकर्मणि योग्या दक्षास्तत्तद्विषयनिष्णाता एव नियुक्ताः स्युः । राजनीतिक जागरणमपि लोकेष्वभीष्यते। सहकारितायाः सहयोगस्यैकत्वस्य देशभक्तश्च लोकेषु प्रचुरः प्रचारः स्यात् । राजनीतिकदलानां सैद्धान्तिकम् आचार-मूलकं च संगठनं स्यात्, न तु जाति-धर्म-सम्प्रदायमूलकम् । लोकेषु सद्भावनायास्तथाविध उदयः स्याद् यथा दीनानां शोषणम्, धनदानेन मतक्रयणादिकं च न प्रवर्तेत । धनेन मतक्रयणे तु धनिनामेवेतत् शासनं प्रवर्तिष्यते। लोकास्तथाऽनुशासनीया यथा ते मताधिकारस्य पूर्णरूपेण सदुपयोगं कुर्युः । आचारवतां गुणज्ञानां विज्ञानामेव च निर्वाचनेन जनतन्त्रं साफल्यम् अवाप्तुं प्रभवति ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy