SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ ६७. समाजवादः ( Socialism ) समाजवादस्य स्वरूपम् — समाजवादः प्राधान्येन समाजस्य हितचिन्तनम् उररीकरोति । समाजस्य हितसम्पादनम्, तस्याधिकार संरक्षणम्, तदवाप्तये च यथायथं कार्यकरणम् । समाजवादस्य प्रथमं चिकीर्षितं यद् जगति पूँजीवादस्य सर्वतोरूपेण समूलोन्मूलनं स्यात् । द्वितीयं च तस्याभिमतं यद् उत्पादनविकासादिकार्येषु समाजे प्रतिस्पर्धा-पद्धति विहाय सहकारितापद्धतिराश्रीयेत । तृतीयं च तस्याभिमतं यत् सर्वेऽप्युद्योगा राष्ट्रीकृताः स्युः । उद्योगेषु समाजस्य राष्ट्रस्य वा पूर्णोऽधिकारः स्यात् । चतुर्थं च तस्याभिमतं यत् सर्वाऽप्युत्पादनवितरण व्यवस्था राज्यायत्ता स्यात् । पञ्चमं च तस्याभिमतं यत् सर्वेभ्योऽपि नागरिकेभ्यः समाजसेवाव्यवस्था स्यात् । समाजवादस्योपयोगित्वम् — समाजवादस्योद्देश्यं विविच्यते चेत् तर्हि स्फुटम् एतदापद्यते यत् समाजवादो जनहितभावनयैव प्रेरितोऽस्ति । समाजवादः समाजे वर्गविभेदं जातिभेदं धर्मवैषम्यम् उच्चावचत्वं धनिक-निर्धनभेदं न मान्यत्वेनाङ्गीकरोति । तद्दृष्ट्या सर्वेऽपि लोकाः समानाः । सर्वेषामेव राष्ट्रिय - सम्पत्तौ प्रकृतिप्रदत्तेषु च वस्तुषु समानाधिकारः । यत्र यत्रोच्चावचत्वं सम्पन्न निर्धनत्वादिभेदोऽवलोक्यते, तत्र तत्र स्वार्थसिद्धिमूलकं मानवकृतं वैषम्यम् । यदि मानवकृतं वैषम्यं विनाशम् आपाद्यते तर्हि सर्वोऽपि समाजः सकलं सुखमवाप्तुं प्रभवति । समाजवाद-साम्यवादयोर्भेदः - समाजवाद - साम्यवादयोर्मुख्योऽयं भेदो यत् साम्यवादः स्वलक्ष्यावाप्तये विद्रोह, क्रान्तिम्, आन्दोलनम्, उचितम् अनुचितं वा साधनम्, हिंसाश्रयणम्, छद्मादिप्रयोगम् अपि न परिहार्यत्वेन मनुते । अपि तु हिंसादेराश्रयणं साधनत्वेन प्रस्तौतितराम् । समाजवादः स्वलक्ष्यावाप्तयेऽहिंसात्मक वैधानिकपद्धतिम् अनुमोदयति । साम्यवादो वर्गसंघर्षं जनयति, विद्रोहं वर्धयति, येन केनापि प्रकारेण लक्ष्यसिद्धि संस्तौति । तत्र समाजवादो वैधानिक क्रान्तिम्, आर्थिक क्रान्तिम् सामाजिक क्रान्तिम्, जनतान्त्रिकं चोद्बोधनं समर्थयते । , समाजवाद -साम्यवादयोः कार्यविधिभेदः - समाजवादः पूँजीवादस्य किं कारणं घोरोऽरातिः ? विचारदृशा विवेचनेन विज्ञायते यत् पूँजीवादे केषांचिदेव विशिष्टानां जनानां स्वार्थसिद्धिः लाभः, सुखसौकर्यं च । पूँजीवाद-पद्धती जनहितसाधनापेक्षया व्यक्तिविशिष्टहितसाधनं प्राधान्यं लभते । तत्र न सुनियोजिता वित्त-विभाजन-पद्धतिः, न च दीन-हीन- जन - सुखसाधनेच्छा | राष्ट्रियस्यायस्य धनिकेषु संविभाजनाद् निर्धनत्वं दीनत्वं हीनत्वं बुभुक्षितत्वं च समेधते । पूँजीवादे प्राचुर्येऽपि निर्धनत्वम्, धनसंग्रहेऽपि क्षुधामृत्युः, विभवसामग्री -सत्त्वेऽपि हीनत्वम्,
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy