SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ समाजवादः २३१ सुखसाधनसत्त्वेऽपि दुःखित्वम्, प्रासादादिवे भवेऽपि जीर्ण-शीर्ण- कुटोरत्वम् । एवं पूँजीवादे केचन धनिन एव, केचन च निर्धना एव । जनहितसाधनं न धनिनाम् अभीष्टम् । स्वसुखावाप्तये ते निर्धनानां शोषणे तत्पराः । धनिनः स्वार्थसाधने यथा तत्पराः, न तथा परार्थचिन्तने । धान्यादीनाम् आधिक्येऽपि सम्यग् - विभाजनपद्धतेरभावाद् दौर्भिक्ष्यम्, अकालमृत्युः, इत्यादिक प्रवर्तते । 1 प्रतिस्पर्धाभावनयैव विदेशेषु स्ववस्तु-विक्रयादिकम् उद्दिश्य युद्धं महायुद्धं च प्रवर्त्यते । अपरं च सुविदितमेतद् यद् अमेरिकादिदेशेषु विपुलं धान्यं दुग्धादिकं च सरित्सु सागरेषु च निक्षिप्यते, न च तद् दोन-हीन- बुभुक्षितादिलाभाय स्वदेशे विदेशेषु च निःशुल्कं वित्तीयते । समाजवादे धनसंग्रहस्य समवितरण व्यवस्था प्रस्तूयते । स च श्रेयान् पन्थाः । समाजवादस्य कार्यविधिः - समाजवादे सहकारिताभावनया कृतं कर्म सर्वंहितसाधकम् । तत्र प्रतिस्पर्धा-भावनाया अभाव उत्पादनाधिक्यं करोति । समाजवादे सुनियोजितोत्पत्तेः, उत्पादनस्य च समविभाजनेन न धान्यादीनाम् अपव्ययो विनाशो वा । समाजवादो व्यक्तिगत स्वार्थं विनाश्य लाभं जनायत्तं विधत्ते । तत्र समाज एवोत्पादनस्य, समविभाजनस्य, आदान - प्रतिदानस्य च स्वत्वाधिकारी । एष एव प्रतिस्पर्धा जन्य - दोष-निरोधोपायः । अत्र औद्योगिकसंस्थानां राष्ट्रीकरणं समाजीकरणं च प्रस्तूयते । समाजवादे राज्यं राष्ट्रं च प्रभुत्वसपन्नम् । तदेव च धनादि-समविभाजनस्य समानावसर प्रदानस्य चाधिकारि । सम-विभाजनम्, सम-श्रमनियोजनम्, सम-लाभ-प्रदानं च समाजवादस्याभिमतम् । एवं समाजवादो निर्धनत्वं जीविकानिरोधं वृत्ति- प्राप्ति - समस्यां च संहरति । समाजवादे शिक्षा, चिकित्सा, सुरक्षा-व्यवस्था, नगरे स्वच्छतादिकम्, सर्वमेवैतद् राज्येन संपाद्यते । समाजवादे जनोन्नतेः समाजोन्नतेश्च पूर्णोऽवसरो लभ्यते । समाजवादे केचन दोषा अपि संलक्ष्यन्ते । तत्र वस्तुतो निर्धनतायाः समूलोन्मूलनं न दृश्यते, निर्धनत्वं तत्रावश्यं नियन्त्रयते । तत्र राज्याधिकारसंवृद्ध्या सह राज्यकर्मचारिषु सहानुभूतेरभावः, जनकार्ये कालातिपातः ( Red-tapism ) च प्रवर्धते । विदेशे बहुषु देशेषु समाजवादः प्रथते । भारतेऽपि वादोऽयं गान्धीवादेन सह सामञ्जस्यं दधत् प्रचरति ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy