SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ ६८. साम्यवादः ( Communism ) साम्यवादस्य प्रवर्तनम् — साम्प्रतं जगदिदं प्रायशो वर्गद्वयसंविभक्तम्साम्यवादिनः ( Conmunists ), पूँजीवादिनश्च ( Capitalists ) । द्वयोरप्येतयोर्वादयोः रूस-अमेरिका- प्रदेशयोः प्रवर्तनं, प्रचारणं, प्रसारणं, परी - क्षणं च संदृश्यते । रूसदेशे साम्यवादः प्रसरीसति । साम्यवादस्य संस्थापको जर्मनदेशीयो विद्वान् कार्ल मार्क्स - महोदयो ( Karl Marx ) वर्तते । सोऽयं देवदूतत्वेन विविधविद्यापारहश्वत्वेन च तन्मतानुसारिभिर्गण्यते । तस्य च प्रथिततमो ग्रन्थः ‘दास कापिटाल' ( Das Kapital ) विषयेऽस्मिन् प्रामाण्ये - नोररीक्रियते । तत्र साम्यवादस्योपयोगित्वं, महत्त्वं, लोकोपकारित्वञ्च विशदीक्रियते । साम्यवादस्य प्रवर्तकेषु 'एंजेल्स' ( Angels ) - महोदयस्य नामधेयोऽपि सादरमुल्लिख्यते । साम्यवादस्य सिद्धान्ताः - साम्यवादस्य राद्धान्तेषु प्राधान्येन इमे विचारा आपतन्ति-वर्गसंघर्षं परिसमाप्य वर्गहीनस्य समाजस्य स्थापनम्, वर्गहीनसमाजस्थापनापुरःसरम् असमानताया अपनयनम्, जनस्य तत्क्षमतानुकूले कर्मणि नियोजनम्, तदपेक्षित साधनानां च प्रस्तुतीकरणम्, उत्पाद्यवस्तुषु व्यक्ति विशेषस्य वर्गविशेषस्य वा स्वामित्वमपसार्यं समाजस्य राज्यस्य वाऽधिकारस्य संस्थापनं, शोषितस्य ( सर्वहारावर्गस्य ) श्रमजीविवर्गस्य स्वामित्वसंस्थापनम् ईश्वरधर्मं-भाग्यादि-प्रवृत्तीनां वारणम्; क्रियामूलकमेव जीवनोपयोगि वस्तुवितरणम्; अकर्मण्याय आवश्यक सुविधानिवारणम्; पूँजीवादं विनाश्य सर्वविधशोषणप्रकारस्य विनाशनम् ; आभुवनं साम्यवादसिद्धान्तप्रचारणं च । साम्यवादस्योपयोगित्वम् - साम्यवाद: पूँजीवादस्य बद्धमूलोऽरातिः । तन्मतानुसारं समग्रेऽपि भुवने विषमताया अत्याचारस्य अन्यायस्य शोषणस्य च मूलं पूँजीवाद एव निर्णीयते । पूँजीवाद एव स दोषाकरो विधिः, येन भुवने वैषम्यं, वर्गसंघर्षः, शोषणं, पतितोत्पीडनं, पराभ्युदयोपेक्षित्वं च प्रचरति । एष एव विधिः विश्वशान्तिविनाशप्रवणः, मानवमौलिकाधिकारसंहारकः, मानवविकास-मार्गावरोधकश्च विज्ञायते । विश्वशान्तेः मानवतायाः संरक्षणं च वर्गहोनेनैव समाजेन सम्भवति । विश्वस्याधि-व्याधिनिवारणं वर्गहीन समाजसंस्थापनयैव पार्यते । उत्पादनसाधनेषु वितरणव्यवस्थायां च सति समाजस्याधिकारे शोषकशोषितभेदो विलोप्स्यते । तदैव पारमार्थिक्याः समृद्धेः शान्तेश्च दर्शनं सुलभम् । साम्यवादस्य लोकोन्नतौ योगदानम् - साम्यवादप्रक्रियाश्रयेण सर्वेषामेव मानवानां विकासकार्येषु समानोऽवसरः, सदृशा एव च सुविधाः लप्स्यन्ते । तदा
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy