________________
साम्यवादः
२३३
समाजे न कश्चन शोषको, न च कश्चन शोषितो भविता । एतादृशस्य वर्गहीनसमाजस्य संस्थापनं साम्यवादस्य प्रक्रिययैव सम्भाव्यते। मासमतानुसारं साम्यवादपद्धतौ जनशासितस्य राज्यस्यैव उत्पादनसाधनेषु पूर्णाधिकारः स्यात् । उत्पादनसाधनेषु सति राज्याधिकारे पंजीवादव्यवस्था स्वयमेव तिरोधास्यते । यतो हि तत्र व्यक्तिविशेषस्याधिकारस्याभावात् शोषणप्रक्रियायाः समूलोच्छेदः । न केवलमेतदेव, मार्क्स-महोदयः राज्यस्यास्तित्वमपि नानुमनुते । वास्तविक शासनं तु जनशासनमेव तस्याभिमतम् । पूंजीवादविनाशानन्तरं धनिनां चाभावे, कोटिपतीनां विलोपे, प्रतिक्रियावादिशक्तिविनाशे च मार्क्समहोदयो निखिलसाधनेषु लोकाधिकारमनुमोदयति । सत्यां विद्रोहात्मकस्थिती अधिनायकतन्त्रस्य स्थापना स्यादिति विमृश्य राज्यसंघटनापद्धतिमपि तिरस्करोति । प्रान्तीयभेदान् प्रदेशादिभेदांश्च अपवायं विश्वसमाजसंस्थापनम् अभिमतत्वेन प्रतिपादयति ।
साम्यवादस्य प्रसारः-मासंप्रभृतिप्रतिपादितानांराद्धान्तानां प्रचारको मूर्तरूपप्रदश्च लेनिन ( Lenin )-महोदय आसीत् । स एव व्यावहारिकरूपेण तन्मतं प्रवर्तयामास । स एव मार्क्समहोदयस्य सन्देशं प्रतिगृहं प्रापयत्-'हे विश्वस्य श्रमिणः ! सङ्गच्छध्वम् । केवलं स्वपाशबन्ध एव विनाश्यः, नान्या भवतां हानिः । विजयश्रोर्युष्मान् वृणोते।' ( Workers of the world, unite. You have nöthing to lose but your chains and have a world to win. )। स एव जार-शासनविनाशाय पूंजीवादक्षयाय च सर्वहारावगं संगृह्य विद्रोहं प्रावर्तयत् । तत्सहयोगमवाप्य रूसदेशस्य भाग्यपरिवर्तनं संजातम् । जारशासनसंहारेण भुवने सर्वप्रथमं श्रमिकशासनं प्रवृत्तम् । एवं रूसदेशे समाजवादिप्रजातन्त्रस्य संस्थापनमभूत् । रूसदेशे साम्यवादस्य साफल्यं राष्ट्राण्यन्यान्यपि साम्यवादसंस्थापनार्थ प्रेरयत् । श्रमिकवर्गे स्वातन्त्र्यभावतरङ्गाः समुद्वेलिताः । यत्र तत्र विद्रोहाः राज्य-क्रान्तयः समजायन्त । साम्यवादिसमाजसंस्थापनाथं च साम्यवादानुयायीनि शासनानि प्रावर्तन्त । तेषु चीनदेशस्य नाम प्राधान्येनोल्लेखमहंति। .
___साम्यवादालोचनम्-एतन्निश्चप्रचं वक्तुं पार्यते यत् साम्यवादसिद्धान्तो लोकप्रियः, लोकाभ्युदयकारी, शोषणप्रक्रियाविनाशकः, पतितोत्पीडननिवारकः, अन्यायात्याचारादिदोषशमको लोके प्रचरति, प्रचरिष्यति च । स्वाधिकारलाभभावनाप्रेरिता लोका: वादमिमं सादरमाश्रयन्ते । शोषणप्रक्रिया तु विश्वव्यापिनी। न स्याच्चेत् शोषणभावोदयस्तर्हि विशिष्टभौतिकसूखावाप्ति१रवापा। वादोऽयं मृतप्रायेऽपि हीने दीनेऽपि क्षुत्पिपासाऽभावग्रस्तेऽपि लोके चैतन्यं सञ्चारयति, स्वोत्कर्षभावनां च जागरयति ।
अवितथमेतद् यत् साम्यवादप्रक्रिया लोकोपकारिणी समाजोन्नति