SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ २३४ संस्कृतनिबन्धशतकम् साधिका च । परं विचारदृशा परीक्ष्यते चेत् तत्र केचन दोषा निसर्गसिद्धाः । स्वेष्टसाधनार्थं विद्रोहेण समं हिंसाश्रयणमपि न विश्वशान्तिसाधनम् । सति अशान्तेरुद्रेके शान्तिपाठो विश्वशान्तिवादो वाधूमायिष्यते । नास्तिक्यमपि वादस्यैतस्य मूलम् । अङ्गीकृते नास्तिक्यवादे का नाम शक्तिर्या विश्वशान्तिस्थापने प्रवर्तयेत् । विद्रोहो विद्रोहान्तरं जनयति, संक्षोभो संक्षोभान्तरम्, दीपो दीपान्तरमिव । शोषकविनाशसमकालमेव प्रवर्तनाशक्तेरभावे शोष्यवृन्दविनाशोऽपि प्रतिष्यते । साम्यवादे अन्नवस्त्रादिप्राप्तौ यथा बलमाधीयते न तथा नैतिकाचारविचारसंरक्षणे । अधिनायकवादस्योत्पनिरपि एतन्मतस्य दोषमावहति । धर्मस्योपेक्षा, ईश्वरेऽविश्वासः, नास्तिक्यबुद्धिः, नैतिकाचारोपेक्षा, कलाविमुखता, संस्कृतिप्रातिकूल्यं चेत्यादयो दोषाः साम्यवादस्य गरिमाणमपहरन्ति ।
SR No.006194
Book TitleSanskrut Nibandh Shatakam
Original Sutra AuthorN/A
AuthorKapildev Dvivedi
PublisherVishvavidyalay Prakashan
Publication Year1980
Total Pages350
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy